________________
४८६
मण्डपसूत्रनिर्णयाधिकारो नामाष्ट्राशीत्युत्तरशततमं सूत्रम् ।। वैष्णवो नन्दनः शक्रो नन्दः पद्मश्च पञ्चमः । . राज्ञां विभूषणार्थाय सर्वे ते नृपनन्दनाः ॥ ३३ ॥ पुष्पश्च सूर्यगर्भश्व चन्द्रभागश्च चन्द्रकः । सुपर्णश्चाऽथ कर्तव्या नृपाणां भोजने हिताः ॥ ३४॥ प्रासादस्याऽनुमानेन मण्डपो द्विगुणायतः । शुकनासलमा घण्टा न न्यूना न ततोऽधिका ॥ ३५ ॥ विशतिभिधेरैः स्तम्भाः कृटस्तम्भाः षडविंशतिः।। मन्दरो नाम विशेयोऽन्तर्विषमतलोन्नतः ॥ ३६ ।। अप्पाष्टस्तम्भत्यागे च शेषाश्चत्वार ईरिताः । चतुःस्तम्भाच्चतुर्वृद्धया विंशत्यन्ताश्च याशिकाः ॥ ३७ ।। षोडशाद्याश्चतुरक्षा भद्रभेदैः समन्विताः। चतुरचक्षणत्यागे द्वादहमण्डपाः ।। ३८।। चतुरधाश्चतुर्वद्धया राज्ञां वै भोजने हिताः । पञ्चविंशतिराख्याता मण्डपा मन्दादिकाः ।। ३९ ।। षोडशांशं कृतं क्षेत्रं द्विमध्ये भ्रमभागिकम् । प्रत्यालिन्देद्धितीयं च तृतीयं पूर्वभद्रके ॥४॥ भद्रे परे चतुर्थ च पञ्चमं कक्षयोस्तथा। पूर्वभद्रालिन्दैः षष्ठमपरालिन्देः सप्तमम् ॥ ४१ ।। कक्षद्वये चाटमं चाऽयौ वै नन्दनादिकाः। तदनुक्रमनामानि कथयामि समासतः ॥ ४२ ॥ नन्दनोऽथो भद्रजयो विजयो मङ्गलस्तथा । पूर्णो माहेन्द्र कश्चैव अष्टमो मकरध्वजः ॥ ४३॥ अौ समतलाझेया दिव्यवितानभूषिताः । ऊचे संवरणाकारा: कर्तव्याः सर्वकामदाः ॥ ४४ ॥
इति नन्दनाद्यष्टी मण्डपाः ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशनोक्तृश्रीभुवनदेवाचायोक्तापराजितपृच्छायां
मण्डपसूत्रनिर्णयाधिकारी नामाष्टाशीयुत्तरशततमं सूत्रम् ।।