________________
४८५
अपराजितपृच्छा लक्ष्मीविलासी विरोधस्त्रैलोक्यविजयस्तथा । पञ्चविंशतिरित्युक्ता मेाद्या मण्डपास्तथा ॥ १६॥ अध: प्रासादकाने तु बलाणकमथोपरि । निगूढाने त्रिकः प्रोक्तस्तस्याग्रे नृत्यमण्डपः ॥ १७ ॥ राजद्वारे प्रतोल्यां च वापीद्वाराग्र एव च । देवागारे जगत्यग्रे जगतिद्वारकं विदुः ।। १८ ।। इत्थं समस्तस्थानेषु मेर्वादीमण्डपानथ । लक्षणेन समायुक्तान् कथयामि समासतः ॥ १९ ॥ चतुरश्रीकृते क्षेत्रे अष्टधा प्रविभाजिते । भवेन्मध्ये द्विभागस्तु चतुष्कः संवृतो धेरैः ।। २० ।। अलिन्द भागिकं कुर्याद् द्वादशस्तम्भकोच्छ्तिम् । द्वितीयो विंशतिस्तम्भैरष्टाविंशतिभिः परः ॥ २१ ॥ भद्रं तु भागनिष्कासं षड्भागं चैव विस्तरे । प्रतिभद्रं ततो भागे चतुर्भागं तु विस्तरम् ॥ २२ ॥ द्विभागायामविस्तार: प्राग्ग्रीवः स्याच्चतुर्दिशम्। सूर्योत्तरशतस्तम्भा भूमिका पञ्चधोच्छ्रिता ॥ २३ ॥ मेरुमण्डप उक्तश्च द्विभौमोर्वे च माडतः । प्रकर्तव्याः संवरणा शछाद्यकूटघण्टादितः ॥ २४॥ माडोऽपि तादृशः कार्यों यादृशो मेरुमण्डपः । द्विद्विस्तम्भ-हस्वयोगान्मण्डपाः स्युरनुक्रमात् ॥२५॥ चतुःषष्टिस्तम्भकान्त मण्डपाः पञ्चविंशतिः । तदूबै बै संवरणाऽनेकालिन्दैश्च संयुता ॥ २६ ॥ शेषं विच्छिन्नरूपादि कल्पयेञ्च यथाक्रमम् । अतः प्रासादतुल्या च द्वितीया भूमिव॑तः ॥ २७ ॥ प्रासादस्कन्धहीनाङ्गा प्रकर्तव्या तृतीयका। समत्तावरणच्छाधसंवरणं वितानकम् ॥ २८ ॥ प्राङ्गणे: माडरूपाढ्याः कर्तव्या: शुभलक्षमाः ॥ २९ ॥
इति मे दिमण्डपनिर्णयाधिकारः ॥ मन्दरो मलयश्चैव विशाल: श्रीधरस्तथा । विजयः पञ्चमः प्रोक्तो मण्डपाश्च सुरालये ॥ ३०॥ माहेन्द्रो विजयश्चैव हेमकूटः सुनन्दनः । विमल: पञ्चमः प्रोक्तो यज्ञार्थे मण्डपाः शुभाः ॥ ३१ ॥ समर्थो भूधरो दक्षो देवाक्षः क्षितिभूषणः । एते सभामण्डपाश्च सर्वकामफलप्रदाः ।। ३२॥