________________
(१८८) मण्डपनिर्णयोनामाष्टाशीत्युत्तरशततम सूत्रम् ॥
विश्वकर्मोवाच
प्रासादस्याग्रतः कार्या लतिनेषु च मण्डपाः । ताननुक्रमत: सूत्र कथयामि यथाविधि ॥ १॥ प्राग्नीवश्च चतुष्कश्च सन्मुखस्त्रिजगस्तथा। श्रीधर: पुष्पगश्चैव श्रीपदः श्रियानन्दकः ॥ २॥ सवराख्यः पृथ्वीधरः पुण्यभद्रो जयन्तकः। शङ्कुपर्णश्च गोविन्दो महाभोगी दिवौकसः ॥ ३॥ द्विरष्ट मण्डपाः प्रोक्ता:प्राग्नीवादि समुद्भवाः । छन्दलक्षणसम्युक्ता उक्ता वै सूत्रमार्गतः ॥ ४॥ प्रासादाने तु द्वौ स्तम्भौ प्राग्नीवः परिकीर्तितः । चतुष्कश्च चतुस्तम्भैः षड्भिः स्तम्भैश्च सन्मुखः॥५॥ अष्टस्तम्भश्च त्रिजगो दशस्तम्भैस्तु श्रीधरः। दक्षिणे त्रिकप्रकारों स्तम्भा द्वादश पुष्पकः ॥६॥ चतुष्किका तदने द्वि-सप्तस्तम्भैश्च श्रीपद:।। यस्तम्भैः श्रियानन्दः संघरोऽप्रचतुक्रिकः ॥ ७ ॥ त्यक्तचतुष्किकः पक्ष-प्राग्नीवे पृथिवीधरः । अग्रे च त्यक्तमारग्रीवश्चतुष्की मध्यतस्तथा ॥ ८॥ पुण्यभद्रस्तदानाम जयन्तश्चाग्रसंयुतः । पूच तिनश्चतुष्क्यश्च शङ्खपर्णश्च संशितः ॥९॥ प्राग्नीवा त्रिपदा पक्ष पूर्वे का चतुष्किका । गोविन्दश्च तदा नाम भोगी स्यातत्रिपदायकः ॥ १०॥ मुक्तकोणेऽथ पूर्वे तु त्रिदशाख्यश्च नामतः। पञ्चपट्टो ( पीठो) परि कुर्यात् विख्यातान्नृत्यमण्डपान् ॥ ११ ॥ __
इति प्राग्नीवादिषोउष मण्डपाः ॥ मेवादीश्च प्रवक्ष्यामि पञ्चविंशति मण्डपान् । भित्सिद्वारप्राग्नीवांश्च भूमिका माडमुच्छ्यम् ।। १२ ।। मेरमन्दरकैलासा हिमवान् गन्धमादनः । हेमकृटो रत्नकूटस्तथा वै शृङ्गवांस्ततः ॥ १३ ॥ इन्द्रनील; पद्मरागो महापद्मस्तथापरः। कीर्तिपताकपूणाख्यौ शतशृङ्गः सुरप्रियः ॥ १४ ॥ शान्तिदेहश्च पुण्यात्मा भूर्भुवःस्वस्तथैव च। महाकान्तः पुरुषान्तः प्रतापवर्द्धनस्तथा ॥ १५॥