________________
(१९०) वितानवर्णनं नवत्युत्तरशततमं सूत्रम्॥
विश्वकर्मवाच
वितानांश्च प्रवक्ष्यामि भेदैस्तच्च चतुर्विधम् । पद्मकं नाभिच्छन्दं च सभा मन्दारकं तथा ॥१॥ शुद्धश्च छन्दसंघाटो भिन्न उद्भिन्न एव च । । एतेषां सन्ति ये भेदाः कथये तान् समासतः ॥२॥ एकत्वे च भवेच्छुद्धः संघाटश्च द्विमिश्रणात् । त्रिमिश्राश्च तथा भिन्ना उद्भिन्नाश्चतुरन्विताः ॥३॥ पद्मनाभं सभापमं सभामन्दारकं तथा। कमलोद्भवमाख्यातं मिश्रकाणां चतुष्टयम् ॥४॥ अधस्तात् पनकं छन्दै नाभिच्छन्दं तदूर्वतः। पद्मनाभं च तन्नाम मिश्रकं चादिजातकम् ॥५॥ अधस्तात्तु सभाच्छन्द पप्रच्छन्दं ततः। सभापमामेतिख्यातं द्वितीयं मिश्रक तथा ॥६॥ अधस्तातु सभाच्छन्दं मन्दारकमथोम्वंतः । समामन्दारकं नाम तृतीयं मिश्र जातकम् ॥७॥ पाके च यथा छन्दे पनाकृति च लम्बितम् । कमलोद्भवमाख्यातं चतुर्थ मिश्रजातकम् ॥ ८॥ (पद्मोद्भवादिक) सर्व वितानच्छन्दसम्भवम् । कर्तव्यं सर्वदेवानामीश्वरे तु विशेषतः ॥९॥ नाभिकं विष्णुदेवेशे सभा वै ब्रह्मणस्तथा। सूर्ये मन्दारकं चैव शुद्धच्छन्दाः प्रकीर्तिताः ॥ १०॥ पार्वत्यादिकदेवीनां सर्वासां पद्मनाभकम् । गणनाथे सभापमं कर्तव्यं शान्तिमिच्छता ॥ ११ ॥ सभामन्दारकं नाम वीतरागेऽतिशान्तिदम् । कमलोद्भवमेवं च सर्वदेववितानकम् ॥ १२॥ यहेवाग्रे वितानं स्यात्तद्गुणं तदाच्छादनम् । सेवितं गन्धर्वगणैः शान्तिदं श्रीप्रदं तथा ॥ १३ ॥ अष्ट द्वादश द्विरष्ट चतुर्विशतिद्वात्रिंशत् ।
चतुःषष्टिविद्याधरास्तदूधैं च वराङ्गनाः ॥१४॥ ६२ अ.