________________
(१८४) समस्त मण्डप निर्णयां नाम चतुरशीत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
मण्डपास्त्रिविधा वत्स ज्येष्ठमध्यकनिष्ठकाः । प्रसाद द्विगुणायामः कनिष्ठों मण्डपो भवेत् ॥ १ ॥ पादोन द्वितयो मध्यो ज्येष्ठः सार्धस्तथैव च । एकैकास्त्रिविधा ज्ञेया ज्येष्ठमध्यकनिष्ठकाः ॥ २ ॥ त्रिज्येष्ठमिति च ख्यातं त्रिमध्यं त्रिकनिष्टकम् | नवधापुनरेकैकं सप्तविंशतिसङ्ख्यया ॥ ३ ॥ प्रासादपीठवत् पीठं तत्समा रङ्गभूमिका | पट्टः पट्टोदरे कार्यो मूलगर्भविनिर्गतः ॥ ४ ॥ मूलगर्भ समुद्भूतः पट्टो घरः पीठान्तके । दशाgraभागैश्च त्रिधा चन्द्रावलोकना ॥ ५॥ अथ चोच्छ्रयमध्यं चैकविंशत्य गुलोन्नतम् । मत्तावरणशोभाढ्यं कक्षासनं करोन्नतम् ॥ ६ ॥ शेषं साधैः पञ्चभिश्च भागैरेवं प्रकल्पयेत् । राजसेनः सपादः स्यात् सपाञ्यंशा च चेदिका ॥ ७ ॥ भाग आसनपट्टश्च कूटागारैः समन्वितः । तदूर्ध्वे सार्घसप्तांशं यावत् पट्टस्य पेटकम् ॥ ८ ॥ सार्धपञ्चच्छ्रयः स्तम्भो घटिपलवभूषितम् । भरणं चार्धभागं च सार्धं स्याच्च तथा शिरः ॥ ९ ॥ पादोनं भरणं चाऽधः सपादं शिर उन्नतम् | एवंविधं प्रकर्तव्यं शपिच्छालकसंयुतम् ॥ १० ॥ पट्टे भागद्वयं कुर्यान्मध्योर्ध्वे छाद्यमुन्नतम् | त्रिभागं निर्गमं छाद्ये ललितं पट्टपेटकैः ॥ ११ ॥ विस्तारस्य दशांशेन होनां हन्याच्च कर्त्तरीम् । कपोताली चार्धभागा दण्डच्छाद्यं तु मस्तके ॥ १२ ॥ चतुष्कं चैव सारांशं पोडशांशमथोच्यते । द्विभागः पट्टविस्तारस्ततो वृत्तं च भ्रामयेत् ॥ १३ ॥ वृत्तार्थे च समुत्सेधं विचित्रं परिकल्पयेत् । स्तम्भोदयश्च भक्तव्यश्चाष्टपञ्चाशदशतः ॥ १४ ॥ दर्दी सप्तभागा व द्विभागा ग्रासपट्टिका । पदं स्वन्तरपत्रं च पादभागा द्विपट्टिका ॥ १५ ॥