________________
४७४
अपराजितपच्छा राज्ञाऽकृतो यदामेरुः क्रियते चाऽन्यवर्णिभिः । भयं तत्र च दुर्भिक्षं दुःस्था राजप्रजादयः ॥ १६ ॥ राजेन्द्रयः कृतः पूर्व महामेर्महोदयः। ततो होनश्च कर्तव्यः शेषवर्णैस्तथैव च ॥ १७ ॥ अधस्तान्मेरुतः कार्यः प्रासादोऽन्यश्च राजभिः । ततोहीनोऽज्यवर्णश्च झण्डकहस्तकैस्तथा ॥ १८॥ अधिकैरण्डकैहस्तैः क्रियते चाऽन्यवर्णिभिः । राजपीडा महादुःखं राहुप्रस्तावद्भवेत् ॥ १९ ॥ तुल्यो यदाऽधिको वापि शालारूपगुणोऽपरः । अधिकः स्त्रीजनस्तत्र भृत्या वै तुल्यविग्रहः ॥ २० ॥ नगरादौ देशमध्ये राजप्रासादतोऽधिकः । कृतश्चेदन्यवर्णैश्च राजपीडा भवेत्सदा ॥ २१ ॥ ईति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापर। जितपृच्छायां
मेरुप्रासादवर्णनिर्णयाधिकारो नाम त्र्यशीत्युत्तरशततमं सूत्रम् ॥