________________
(१८३) मेस्पासावर्णनिर्णयात्मकं व्यशीत्युत्तरशततमं सूत्रम् ।।
विश्वकर्मोवाच
चतुर्पु पूर्ववर्णेषु विप्रा वै सृष्टिमार्गतः । क्षत्रिया वैश्या अधःस्थाश्चतुर्वर्णा द्विजादयः ॥१॥ विप्रक्षत्रियवैश्याश्च शूद्राश्चेति चतुष्टयम् । एकैकस्य क्रमयुक्ती कथये तब साम्प्रतम् ॥ २॥ अपि चेद्देशमध्ये तु विना राज्ञो धनेश्वरः। शुद्रोऽपि कारयेन्मेरुं वक्ष्ये तद्गुणदोषकम् ॥ ३॥ भवेत्तत्सन्तानवृद्धी राजराष्ट्रादिकक्षयः । स्वल्पवृष्टिरल्पशस्यमुद्वसन्ति शनैः शनैः ॥ ४॥ स्यादन्यवंशजो राजा प्रवासिन्यश्च तत्प्रजाः । ग्रामोऽरण्ये वनं ग्रामे यथाऽन्यः सष्टिसम्भवः ॥५॥ वैश्येनाऽपि यदा मेरुविना राक्षः प्रकार्यते । विभ्रमस्तत्र राष्ट्रेषु दुःस्थिता भ्रमति प्रजा ॥६॥ क्षत्रियोऽपि विना राज्ञो यदि मेरुं च कारयेत् । तस्करोपद्रुता लोकास्तत्र राष्ट्रेषु नित्यशः ॥ ७ ॥ विप्रोऽपि कारयेन्मेरुं विना राज्ञो धनेश्वरः । परस्परं प्रजाकोपो भवति ग्रामदुःस्थितिः ॥ ८ ॥ शस्तः शताण्डकः शूद्रे वैश्ये पञ्चशताण्डकः । तथा विप्रे सहस्राण्डो गाज्ञि तद्विगुणः स्मृतः ॥ २ ॥ महाराजेश्वर: स स्थान महाराज्यमहीपतिः । महामेरुद्भवे चैव शान्ती राष्ट्रप्रजादिषु ॥ १०॥ अर्धनिष्पन्नमात्र तु त्यजेन्मेरुं महीपतिः। तस्य राष्ट्रे विभ्रमः स्याद्यावन्न कलशारुहः ॥ ११ ॥ हरो हिरण्यगर्भश्च हरिदिनकरस्तथा । एतेषां कारयेन्मेरं नाऽन्यदेवे कदाचन ॥१२॥ कुर्याद्यदाऽन्यदेवेषु शताण्डादिकमेरुकम् । तस्य राझो भवेद्देशे विभ्रमो दुःस्थिता प्रजा ॥ १३ ॥ उक्त एवं शुद्धच्छन्दो महामेरो: समुद्भवः । प्रजानां शान्तिदो राज्ञां राष्ट्रादौ च महोत्सवः ॥ १४ ॥ महाराजेन चेन्मेरुः कृतो वै पूर्वतो महान् ।
त्रिवर्णिभिस्तथा मेरुः कर्तव्यस्तदनन्तरम् ॥ १५ ॥ ६० अ.