________________
বালিসা त्रिसंघाटास्सप्तभूमा दश द्विद्विशताण्डकैः । पञ्जरः पञ्चभागैश्च क्रमत्रयसमुच्छ्तिः ॥ १५ ॥ एको द्विशताण्ड आद्यो द्वितीये पञ्चविंशतिः । पञ्चाण्डकास्तृतीये चाऽष्टादशांशोरुमञ्जरी ॥ १६ ॥ त्रिसंघाटा: पञ्चभूमास्त्रिचत्वारिंशदण्डकैः । विनोदकान्तरं स्तम्मा वेदांशकमिताः स्मृताः ॥ १७ ॥ पञ्चविंशत्यण्डमाघे पश्चाण्डाश्च तदूर्ध्वतः । भुवनांशं चोरुङ्ग विमानं पश्चभूमिकम् ।। १८ ।। षोडशांशं भवेद् भद्रं दशांशैस्तु विमानकम् । सप्ताण्डकं तदने तु कुर्याकुमुद तथा ॥ १९ ॥ मेरुरेकाधिकदशसहस्राण्डक ईरितः । पवं शङ्गोद्भवः कार्यश्छन्दे विमाननागरे ॥ २० ॥ द्वाविंशतिर्मूलगर्भः षड्भागो भद्रविस्तरः । भ्रममेकं सूर्यभित्ती: सभ्रमं च प्रकल्पयेत् ॥ २१ ॥ विमाने भूमिजा घण्टा कर्तव्या सर्वकामदा । क्षीरार्णवसमुत्पन्नं कलशं तु ध्वजाग्रजम् ॥ २२ ॥ महामेरुध्वजारोहं पुण्यं शताश्वमेघध्वजम् । पूर्वापरान् विंशतिकान तारयेन्नरकार्णवात् ॥ २३ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीगुवनदेवाचार्योक्तापराजितपृच्छायां श्रीचतुर्दशभुवनगिरीमेरुप्रासादलक्षणाधिकारो नाम द्वयशीत्युत्तरशततमं सूत्रम् ॥