________________
(१८२) श्री चतुर्दशभुवनगिरिमेरुप्रासादलक्षणात्मकं वयशीत्युत्तर
शततमं सूत्रम् ॥
विश्वकर्मोवाच
शताधं च तदर्धे च पत्रिंशत्कं तथैव च । प्रत्येकं त्रिविध ज्ञेयं ज्येष्ठमध्यकनिष्ठकम् ॥ १॥ त्रिज्येष्ठं च तथाख्यातं त्रिमध्यं त्रिकनिष्ठकम् । मेरोरियं हस्तसङ्ख्या विभागश्च ततः परम् ॥२॥ श्रीचतुर्दशभुवनगिरिमेवभिधस्य च । षट्सप्ततिर्भागसन्ख्या विभक्ता तु क्रमागता ॥३॥ आद्यः कर्णप्रतिरथरथयुग बालपञ्जरः। सार्धस्तम्भैभूषिताश्च शाला वै वामदक्षिणे ॥ ४ ॥ रथप्ररथसंयुक्तास्तत्परे बालपञ्जराः । तत्कर्णा चै नवनवादिकाङ्गकविकल्पनात् ॥ ५॥ वसुमुनिरसइषु वेदा विकारै सालया ?। पृथुत्वे च विधातव्यो विभागोऽयमतः परम् ॥ ६॥ गर्भ: शुकः शुकोदरः शान्तः श्रीगर्भसुन्दरौ। प्रशस्तो वै सप्तगर्भाः प्रासादेषु समागताः ॥ ७ ॥ रथैः प्रतिरथैः कर्णैः पञ्जरादिक्रमत्रयम् । द्विको ? स्तम्भे भट्टै स्तवगरधिकोदरम् ॥ ८॥ कणे आदिक्रमैः कुर्यादधस्तात् त्रिशताण्डकैः । द्विशताण्डकैस्तदृर्वे शताण्डश्च तदूर्धतः ॥९॥ पञ्च संघाटजा रेखा भ्रमिका च समुच्छ्रिता ।। एकद्वित्रिशताण्डका: कर्तव्याः सर्वकामदाः॥ १०॥ सभागश्च प्रतिरथ: क्रमत्रयसमुच्छितः । आदिक्रमरुद्गमश्च एकद्वित्रिशताण्डकैः ॥ ११ ॥ पञ्चविंशत्यण्ड ऊर्व तिलकं च तव॑तः । प्रत्यङ्गान्यष्टभागैश्च स्युविंशतिरण्डकाः ॥ १२ ॥ षड् लघुप्रत्यङ्गकानि तत्सल्यैरण्डकैस्तथा। षड्भागकश्चैव रथस्त्रिक्रमोर्ध्वसमुच्छ्यः ॥ १३ ॥ आद्यः सार्धशताण्डश्चाऽपरो विंशतिकाधिकः।। नवाशीत्यण्डस्तृतीयोऽष्टाविंशत्युरुमञ्जरी ॥ १४ ॥