________________
अपराजितपृच्छा
एकादशोद्गमो मेरुः कर्णिकानां तथाऽष्टकम् । कर्ण्यण्डकाश्च विंशत्युत्तरसप्तशतानि च ॥ १८ ॥ शगाण्यशीतिः कर्ण्यः षट् तथा चैकादशोद्गमैः । स्थस्यानुक्रमं वक्ष्ये हण्डकैः शृङ्गसङ्ख्यया ॥ १९ ॥ एकरथे चाण्डकास्तु सङ्ख्यया पञ्चविंशतिः । शृङ्गाणि स्युः षट् क्रमतस्तथा सार्धशताण्डकैः ॥ २० ॥ चतूरथे त्वेकादश कार्याः षट्क्रमतस्तथा । पञ्चविंशति, शृङ्गाणां संख्या वै षट्शताण्डकैः ॥ २१ ॥ भद्रे की केशरिणो नवक्रमत एव च । पञ्चचत्वारिंशदण्डः कर्तव्यः सर्वकामदः ॥ २२ ॥ भद्रसंवरणोर्च च दर्शनीया च कर्णिका। प्रकर्तव्याः केशरिणश्चाण्डकाः पञ्च भूषिताः ॥२३ ।। चत्वारस्त्रयो द्वावेक उभयभद्रे विंशतिः । कुर्याच्छताण्डकं चेत्थं मेरुरेकादशोद्गमः ॥ २४ ॥ एकादशोदूगमो मेरुः प्रत्यङ्गाष्टकमेव च । नवशङ्गाणि वै भद्रे कार्याणि त्वपराजित ॥ २५ ॥ मूलरेखा-पृथुत्वं च द्वासप्तत्यंशकं भवेत् ।। शङ्गं चतुस्त्रिंशदंशं तदर्ध च विनिर्गतम् ॥ २६ ॥ यष्ट द्वादश दशाष्ट षट् चत्वारो द्वयं तथा । एको भागास्तदने स्यादुरःशृङ्गे ह्यनुक्रमः ।। २७ ॥ अष्टभागं च प्रत्यङ्ग शेषं स्याद्--क्रमम् । चतुर्विंशति-प्रत्यङ्ग षट्त्रिंशदुरुमञ्जरि ॥ २८॥ सर्वे चामलसारास्तु दिव्यकुम्भीवभूषिताः। एवमेव प्रकर्तव्यं महामेरोश्च लक्षणम् ॥ २९ ॥ एकाधिकं प्रकर्तव्यं दशोत्तरसहस्रकम् । महामेवभिधानश्च कर्तव्यस्त्रिपुरान्तके ॥ ३० ॥ हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा। एते देवाः स्थिता मेरौ नाऽन्ये चैव कदाचन ॥ ३१ ॥ तत्सन्ताने यैः कृतोऽयं पूर्णमन्नं भवेत्सदा । मातृपक्षं पितृपक्षं तारयेन्नरकार्णवात् ॥ ३२ ॥ उत्पन्नश्च भवेत्स्वर्गे स्वेच्छया पृथिवीपतिः । महामेरुध्वजारोहे यावश्चन्द्रार्कमेदिनी ।। ३३ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृ श्रीभुवनदेवाचार्योक्तापराजितन्छायां
महामेरुप्रासादनिर्णयाधिकारो नामैकाशीत्युत्तरशततमं सूत्रम् ॥