________________
(१८१) महामेरुप्रासादनिर्णयोनामैकाशीत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
चतुरश्रीकृते क्षेत्र मेरो सार्कशतांशके। अथापि भाजिते भागैः सनिर्गमतले समे ॥१॥ कर्णान्तादू गर्भपर्यन्तं विभागानां तु निश्चयः ।। षट्पञ्चाशद्विभागैश्च कथयिष्याम्य नुक्रमात् ॥२॥ ग्रहा रामाः शरा रामा नन्दा रामाः शरा गुणः। पक्षी च भुवनानीति सीमार्ध भक्तिभागतः ॥ ३॥ युगा दिशश्च ऋतकः कर्णे कामुपरथे । शृङ्गाणामिति सङ्ख्या च कथिताऽसाचनुक्रमात् ॥ ४॥ कमोत्तरं हस्वहस्वादुपर्युपरि च क्रमात् । अध उर्ध्व योगतश्च स सोमतो? क्रमागता ॥५॥ पष्टिभागैर्मूलगर्भो भित्तिका चाऽष्टभागिका । दशभागं च भ्रमणमष्टांशा भित्तिका पुनः ॥ ६॥ नन्दरसे (गगे) न्द्रियपक्षा द्वयष्टतो भद्रविस्तरः। भागमागं तु निष्कासो रथोपरथकानुगे ॥ ७ ॥ अर्धाधे कर्णान्तभद्रं मध्यच्छन्दे प्रकीर्तितम् । वार्यन्तरं विना कार्य कुम्भकादिच्छाधान्तकम् ॥ ८॥ तद्रपाकारकोऽग्रे तु ततोऽधिकविनिर्गमः। फालयेद् भ्रममध्ये तु बाह्यच्छन्दपरिक्रमम् ॥९॥ चन्द्रावलोकन भद्रे चत्वारिंशद्भिरुनतम् । षट्पञ्चाशत्समुत्सेधो मेरूणां प्रहरान्तके ॥ १० ॥ पीठोपरि च कर्तव्यो भद्रशालसमुश्चयः । राजसेनो धेदिका च स्तम्भोच्छालकशीर्षकम् ॥ ११॥ पट्टोचे दण्उच्छाधं तदूचे संवरणा भवेत् । पृथुत्वार्धन निष्कासो भद्रेषु सकलेषु च ॥ १२ ॥ समस्तभक्तिपादेषु कर्तव्यो मेखलोदयः । पाटोपपीउजङ्घाश्च मेखलाकूटच्छाद्यकम् ॥ १३ ॥ पुनर्जशोद्गमच्छाद्यं प्रहारान्तोऽधमुन्नतः। मण्डपा अग्रयुक्ताश्च कर्तव्यामूलसूत्रतः ॥ १४ ॥ पञ्चाशीत्यण्डकाः कार्याः कर्णशृङ्गेवरावतः। कर्णे प्रतिरथे ताभ्यां समक्रमसमुद्भवः ॥ १५॥ एकादशोद्गमो मेरुस्तन्मानः शङ्गकक्रमः। स विंशतिसहस्राण्डैः सूर्यसङ्ख्यैश्च शृङ्गकैः ॥ १६ ॥ कर्णिका शङ्गमेकं तु सर्वतोभद्रके भवेत् । दशक्रमेण वै ताभ्यामण्डानां नवतिस्तथा ॥१७॥