________________
ટ
विमाननागरच्छन्दजन व मेर्वधिकारो नामाशीत्युत्तरशततमं सूत्रम् ॥
एवं तथा पञ्चसप्तत्यधिकाष्टशताण्डकः । मानमुक्तं च विधिना लभ्यते चेप्सितं फलम् ॥ ६४ ॥
इति सुवर्णकेश्वभिधानो नाम पञ्चसप्तत्यधिकशताण्डको मेरुः ॥ चतुरश्रीकृते क्षेत्रे चतुर्विंशति भाजिते ।
"
भागश्च भवेद्गर्भो द्विद्वयंशा भ्रमभित्तयः ॥ ६५ ॥ भ्रमणीयक कार्ये भित्तीनां च त्र्यं तथा । अधस्ताद् भ्रममेकं तु त्रिभागा भ्रमभित्तयः ॥ ६६ ॥ वेदांश: कर्णविस्तारः पृथ्वीजयविमानकम् | ऊर्ध्वं त्रिभागं कुर्याद्वै नन्दिशालं तु कामदम् ॥ ६७ ॥ माल्यवन्तं च शिखरे भागैश्च विस्तरः | भागा कर्णी कुमुदजा प्रत्यङ्गं तु विमानजम् ॥ ६८ ॥ त्रिभिर्भागैः प्रतिरथं मन्दरं सर्वकामदम् । सार्धद्वयं नन्दिशालं तदूर्ध्वं लक्षणान्वितम् ॥ ६९ ॥ मल्यातलमुरः शृङ्गं कल्पयेद् गुणपूर्वकम् | कर्णी कुमुद आख्याता चोरुशृङ्गं विमानजम् ॥ ७० ॥ चतुर्भागं चैव भद्रं कुमुदा चोरुमञ्जरी । तद मुखभद्रं च श्रीवत्सा चोरुमञ्जरी ॥ ७१ ॥ एवमापूर्यते शृङ्गैरेकोत्तरसहस्रकैः ।
लभते शिवलोकं स यावदाहृतसंप्लवम् ॥ ७२ ॥
इति वृषभध्वजामिघानो नामैकोत्तरसहस्राण्डको मेरुः ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्ता पराजित पृच्छायां विमाननागरच्छन्दजनवमेधिकारी नामाशीत्युत्तरशतत्तमं सूत्रम् ॥