________________
अपराजित पृच्छा
मन्दरी प्रतिरथे चाघऊर्ध्व तु संस्थितौ । तदूर्ध्वतः प्रमाणेन चोरः शृङ्गं मल्लतलम् ॥ ४८ ॥ कर्णे व तिलकं कार्य प्रत्यङ्गं च विमानजम् । तद्रूपा चाग्रकर्णी तु तु कारयेत् ॥ ४९ ॥ उरःशृङ्गे च कुमुदो मत्तालम्बैर्भद्रोन्नतम् । एवमादिगुणोपेतं कुर्याद्वै शुभलक्षणम् ॥ ५० ॥ गत्वा तु सूर्यलोकं वै सूर्यतेजः समन्वितः । सूर्या यावच्च विख्यातस्तावत्तिष्ठत्यसौ नरः ॥ ५१ ॥
કહે
इति किरणोद्भवाभिधानो नाम सपादपाताण्डको मेरुः ॥
क्षेत्रे विंशतिधा भक्ते त्रिभागः कर्णविस्तरः । पार्श्वकर्णी भवेद् भागा द्विभागः प्रस्थो भवेत् ॥ ५२ ॥ तत्समो रथ आख्यातो भद्रं वेदांशविस्तरम् । कर्णे कैलास इत्युक्तस्तरुगं च विमानम् ॥ ५३ ॥ तदूवै नन्दिशालश्च माल्यवान् शिखरे तथा । कर्णिका वै नन्दनजा प्रत्य तु विमानजम् ॥ ५४ ॥ नन्दिशाल: प्रतिरथे तद्रूपं तु तदूर्ध्वतः । मल्लतलोरुशिखरं कर्तव्यं शुभमिच्छता ॥ ५५ ॥ नन्दनो रथ ऊर्ध्वे तु रुशृङ्गं विमानजम् । पृथुस्वे चैव षडूभागः कुमुदो भद्रकारुहः ॥ ५६ ॥ स्थापितो ब्रह्मकेन्द्रेषु ब्रह्मा लोकपितामहः । स याति ब्रह्मलोके तु यावदाहृतसंप्लवम् ॥ ५७ ॥
इति कमलहंसाभिधानो नाम सार्धसप्तशताण्डको मेरुः ॥ द्वाविंशतिभक्तक्षेत्रे शतमूलगर्भो भवेत् । भागभागा भित्तयः स्युः शेषं चैवान्धकारिका ॥ ५८ ॥ कर्णे पृथुत्वं वेदांशं कैलासं विमानशिखरम् ? | तदर्धमूर्ध्वतः शस्तं नन्दनं सर्वकामदम् ॥ ५९ ॥ माल्यवन्तं च शिखरे संसारभयनाशनम् । तवें केशरी पार्श्वे प्रत्यङ्गं च विमानजम् ॥ ६० ॥ सार्धत्रयं प्रतिरथः नन्दनं नन्दनात्परम् I अनुभागैर्मल्लतलं कौमुदी चोरुमञ्जरी ॥ ६१ ॥ एकभागा कर्णिका चाssवृतं केशरिणा युतम् I उरुः शृङ्गं विमानं च कर्तव्यं तु भद्राण्डकम् ॥ ६२ ॥ वेदांशो भद्रविस्तार उरुशृङ्गं च कौमुदम् । क्रमसूत्रे द्वाविंशतिर्लघुप्रत्यङ्गकानि च ॥ ६३ ॥