________________
विमाननागरच्छन्दजनवमेधिकागे नामाशीत्युत्तरशततम सूत्रम् ॥ घल्लभः सर्वदेवानां स्वर्गे या भूमिशासनम् । ईप्सितं लभते राज्यं स्वर्ग वा क्षितिमध्यतः ॥ ३२॥
इति सुरवल्लभाभिधानो नाम सार्धद्विशताण्डको मेरुः ॥ चतुर्दशविभक्ते च द्विभागः कर्णविस्तरः । नन्दनस्तत्र कर्तव्य ऊचे स्यात्सर्वभद्रकः ॥ ३३ ॥ मल्लतलं च शिखरं घण्टाकलशभूषितम् । भागा च पार्श्वकर्णी स्यात् श्रीवत्सश्च ततो भवेत् ॥ ३४॥ कर्णतुल्यः प्रतिरथः सर्वतोभद्रभूषितः ।। तदूर्वे तिलकं स्थाप्यमुरुशृङ्गं मल्लतलम् ॥ ३५ ॥ कर्णिका चैकपादा तु श्रीवत्सस्तत्र भूषितः । कुमुदाख्यं चोरुशृङ्गं तद्वत् प्रत्यङ्गकं तथा ॥ ३६॥ भद्रे कर्णे च श्रीवत्सः कुमुदं चोरुशङ्गकम् । विना भ्रमं सभ्रमो वा कार्यों भुवनमंडनः ॥ ३७॥ रत्नकूटे महाशैले राज्यं यावञ्च मेदिनी । चन्द्रार्कतारकं याबद् यावद्देवो महेश्वरः ॥ ३८॥
इति भुवनमण्डनाभिधानो नाम पञ्चसप्तत्यधिकत्रिशताण्डको मेरुः ॥ द्वात्रिंशद्भाजिते क्षेत्रे पञ्चांशः कर्णविस्तरः । पार्श्वकर्णी भवेद् भागा वेदांश: प्ररथस्तथा ॥ ३९ ॥ द्विभागा च पुनः कर्णी भद्रं चाष्टांशविस्तरम् । कणे च मन्दरं कुर्याच्छिखरं कौमुदं तथा ॥ ४० ॥ सर्वतोभद्र ऊध्व तु मह शिखरमुत्तमम् । द्वाविंशत्यंशविस्तारं घण्टाकलशभूषितम् ॥ ४१ ॥ पार्श्वकर्णी केशरिणः प्रत्यङग च विमानजम् । प्ररथे सर्वतोभद्रमूर्धे तद्रपकं भवेत् ॥ ४२ ॥ मल्लतलं चोरुशग तद्वत् प्रत्यङ्गकर्णिका । मत्तालम्बोऽनभद्रेषु चोरुशङ्गं तु कौमुदम् ॥ ४३ ।। सभ्रमं च ततः कुर्याद् रेखामर्मवितर्कितम् । नवखण्डधरामध्ये तद्राज्यं जन्मजन्मनि ॥४४॥
इति रत्नशीर्षाभिधानो नामैकोत्तरपञ्चशताण्डको मेरुः ॥ छन्देऽष्टादशधा भक्त त्रिभागः कर्णविस्तरः। पार्श्वकर्णी भवेद् भागा द्विभागः प्ररथस्तथा ॥ ४ ॥ पुनः कर्णी भवेद् भागा वेदांशो भद्रविस्तरः । श्रीवृक्षो ( वत्सो) मूलकणे तु तच्छृङ्गं च विमानजम् ॥ ४६ ॥ मन्दरश्च तदूर्वं तु द्विभागः कर्णविस्तरः । द्वादशांशा मूलरेखा मल्लतलं च शृङ्गकम् ॥४७॥