________________
अपराजितपृच्छा द्विभागो भित्तिविस्तार: शेषं गर्भो भ्रमं बिना। विना भ्रमं सभ्रमं या दूषयेन्नहि भेरुकम् ॥ १६॥ क्षेत्रार्धे च भवेद् भद्रं भद्राधै कर्णविस्तरः । कर्णकार्धप्रमाणेन कर्तव्यो भद्रनिर्गमः ॥ १७ ॥ भद्रं गवाक्षकोपेतं मध्ये कुर्याच्च सम्मुखम् । याम्योत्तरे शुकाग्रे तु जङ्घायामस्त्रयोदश ॥ १८ ॥ पीठोपपीठजङ्घाश्च मेखलाकूटच्छाद्यकम् । पुनर्जङ्घोद्गमछाद्यं प्रहरान्ते सप्तोन्नतम् ॥ १९ ॥ राजसेनवेद्यासनस्तम्भोच्छालच्छाधान्तकैः । षड्भागमुन्नतं कूट घण्टा कूटैरलङ्कता ॥ २० ॥ चत्यारो नन्दनाः कर्णे विमानमुरुशुङ्गकम् । सार्धत्रिभागिकं कुर्यात्तदूर्ध्वं तु विनिर्गतम् ॥ २१ ॥ षडंश मूलशिखरं विमानं पञ्चभूमिकम् ।। रथिकोद्गमशोभाढ्यं शुकनासाग्रभूषितम् ॥ २२ ॥ कण्ठो ग्रीवा कुडमलं च पद्मच्छरोपच्छत्रकम् । तदूचे कलशं स्थाप्यं क्षीरार्णवसमुद्भवम् ॥ २३॥
इतिमभिधानो नामैकोत्तरशताण्डको मेरुः ॥ चतुरश्रीकृते क्षेत्रे शतमूलविभाजिते । द्विभाग: कर्ण इत्युक्तः सार्धः प्रतिरथो भवेत् ॥ २४ ॥ त्रिभागो भद्रविस्तारो मत्तालम्बैर्विभूषितः। उक्ताः प्रतिरथाः सूर्या उस्शृङ्ग विमानकम् ॥ २५ ॥ विमानं मूलशिखरं घण्टाकलशभूषितम् । शुकायकसमायुक्तं शेषं पूर्वप्रकल्पितम् ॥ २६ ॥ विना भ्रमं सभ्रमो वा शाश्वतो हेमशीर्षकः । हेमकृटपुरे यान्ति यावच्चन्द्रार्कतारकम् ॥ २७ ॥
इति हेमशीर्षाभिधानो नाम सपादशताण्डको मेरुः॥ भते द्वादशधा क्षेत्रे द्विभागः कर्णविस्तर। पार्श्वकर्णी भवेद् भागा साधः प्रतिरथो भवेत् ॥२८॥ कर्णी प्रोक्ता चार्धभागा द्विभागो भद्रविस्तरः। चत्वारो नन्दनाः कर्णे दशांशै गरोद्भवाः ॥ २९ ॥ तवं लार्धभागश्च द्वितीये केशरी क्रमे । शिखरं वै मल्लतलं प्रत्यङ्गं कुमुदोद्भवम् ॥ ३०॥ उरुशङ्गव कुमुदं विमानः स्याद् द्वितीयकः ।
एवं लक्षणकं कुर्यान्मेरुं च सुरवल्लभम् ॥ ३१॥ ५९ अ.