________________
(१८०) विमाननागरच्छन्दजन व मेरुर्नामा शीत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
नवसंस्तथा प्रोक्तान् कथये तव साम्प्रतम् । एकैकस्य यथा नाम लक्षणं यस्य यादृशम् ॥ १ ॥ श्रीमेरुः प्रथमो नाम द्वितीयो हेमशीर्षकः । सुरवल्लभस्तृतीयस्तु भुवनमण्डनः ॥ २ ॥ पञ्चमो रत्नशीर्षाख्यः षष्ठो वै किरणोद्भवः । सप्तमो कमलहंसः सुवर्णकेतुरष्टमः ॥ ३ ॥ नवम मेरुराख्यातो नाम्ना तु वृषभध्वजः । इत्युक्तश्च महामेरुस्त्रिधोदितक्रमागतः ॥ ४ ॥ भवेत्रिरथिकश्चाऽऽद्यो यावन्नवरथान्तकम् | पञ्चसप्तरथाश्चोका अङ्गमित्यभिधीयते ॥ ५॥ पञ्चादिहस्ततो मेरुः पञ्चाशद्धस्तकावधि | हस्तान्तरे ततो भेदा भूतवेदाश्च सङ्ख्यया ॥ ६॥ विना भ्रमैः सभ्रमाश्च महामेरुर्भ्रमद्वयम् । इत्युक्तसमलङ्कारः प्रयुक्ता वास्तुवेदिभिः ॥ ७ ॥ श्रीमेरुनामा प्रोक्तोऽसावेकोत्तरशताण्डकः । सपादशताण्डको यो हेमशीर्षः स उच्यते ॥ ८ ॥ सुरवल्लभनामा स यस्सार्धद्विशताण्डकः । पञ्चसप्तत्युत्तरत्रिशताण्डो लोकमण्डनः ॥ ९॥ रत्न शीर्षस्तथा चैकोत्तरपञ्चशताण्डकः | पादपाताण्डको मेरु किरणोद्भवः ॥ १० ॥ सार्धसप्तशताण्डैश्च स्मृतः कमलहंसकः । स्वर्णकेत्वभिधानश्च पादानाङ्कुशताण्डकैः ॥ ११ ॥
कोत्तरसहस्राण्डो मेरुश्च वृषभध्वजः । अण्डसङ्ख्याभिधानं च कथितं त्वपराजित ॥ १२ ॥ पञ्चादिहस्ततो मेरुः पञ्चाशद्धस्तकावधि । हस्तान्तरे भेदकाः षट्चत्वारिंशच्च सख्यया ॥ १३ ॥ अण्डविंशतिवृद्धया च हस्तभेदा इति स्मृताः । षट्चत्वारिंशत्कएको भेद उक्तश्च शाश्वतः ॥ १४ ॥ चतुरश्रीकृते क्षेत्रे अष्टाष्ट्रकविभाजिते ।
भागो भागा भ्रमो मित्तिद्विभागो गर्भ उच्यते ॥ १५ ॥