________________
अपराजितपृच्छा
४६३
विभक्ते दशधा क्षेत्रे कारयेच लताख्यजम् । तस्य द्वितीयोरुशङ्ग गुहाधारः स उच्यते ॥४७॥ भद्रके कर्णजा रेखा भद्रोद्गमविभूषिता । शलाको नाम विशेयो वेणुको रुचकोद्गमैः ॥ ४८ ॥ द्राविडे त्वेकभूमिश्चेत् कुञ्जरः सर्वकामदः । त्रिभूमो द्राविडख्यङ्गो भवेद्धर्षाभिधानकः ॥ ४९ ॥ लतिने वर्धमानश्चेद् विजयो भद्रकोद्गमैः । अभद्रं विना कर्णैरुदकुम्भः स कामदः ।। ५० ॥ मोदकश्चैत्यकाकार: शिखरं वलिकोन्यतः।
इति गणपतिप्रासादाष्टकम् ॥ द्वयष्टकर्णा विनाभद्रैः स महापद्मसंज्ञकः ॥ ५१ ॥ द्विभूमिकगृहाकार: कूटे घण्टा तृतीयका। विख्यातो हर्म्यनाम्नोज्जयन्तः प्रत्यलिन्दकैः ॥५२॥ चत्वारो मण्डपास्तस्य स भवेद् गन्धमादनः । सप्ताङ्गो भूमिजः पञ्चभूमः स्याच्छतशृङ्गकः । ५३ ।। निरावेद्यस्तु प्राग्ग्रीवैर्विभ्रान्तश्च चतुर्मुखः । एकैकमुरुशृङ्गं च कामदः स मनोहरः ॥ ५४॥
इति जिनेन्द्रप्रासादाष्टकम् ॥ वृत्तो वृत्तायतश्चैव चैत्यो वै वेद्यलङ्कृतः । सुभद्रो भद्रशृङ्गेषु किङ्किणी नाम प्रोच्यते ॥ ५५ ॥ भद्रोद्गमैश्च लयनः पट्टिाछाधवरण्डिकः । द्वयलिन्दकश्च विभवः पट्टिघाटस्तारागणः ॥५६॥ चतुःषष्टिश्च कथिताः प्रासादाः सर्वकामदाः।। पूजिताः सर्वदेवेशेषु सर्वदेवसुखावहाः ॥ ५७ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायांविमानादिचतुःषष्टिप्रासादलक्षणाधिकारो नामैकोनाशीत्युत्तरशततम सूत्रम् !!