________________
४६२ विमानादिचतुःषष्टिप्रासादलक्षणाधिकारो नामैकोनाशीत्युत्तरशततमं सूत्रम् ॥
केशरिभद्रे त्रिशङ्गं कर्णे कुर्याच मन्दरम् । नवभूम्युच्छ्तिा रेखा मेरुर्वे ब्रह्मणो मतः ॥ ३१ ॥ भद्रे कर्णे द्विद्वि शङ्गमेकैकं प्ररथे तथा । मन्दर: स समाख्यातः पञ्चविंशतिकुम्भकः ॥ ३२॥ नन्दिशालकर्णशृङ्ग कर्तव्यं च नवाण्डकम् । कैलालश्च तदा नाम कर्तव्यः पुरमध्यगः ॥ ३३ ॥ देय भद्रं च रुचके हंसः कर्णोदकान्तरैः । तत्प्राग्नीवाश्च कर्तव्याः स भवेद् भद्रसंशकः ॥३४॥ तस्य भद्रोदूगमाः पञ्च भवदुत्तुङ्गसंशकः । एकं शृङ्ग भद्रशृङ्गे विदुस्तं मिश्रकाभिधम् ॥ ३५॥ घृत्तं मालाधरं कुर्याद् वलभ्याकृतिशृङ्गकम् । घण्टा घटयुताः सर्वे कर्तव्याः सर्वकामदाः ॥ ३६॥
इति ब्रह्मप्रासादाष्टकम् ॥ विभक्ते चाऽधा छन्दे पञ्चाण्डं कर्णशृङ्गकम् । पञ्चोद्गमयुतं भद्रं गवयो नाम नामतः ॥ ३७॥ कर्णो तिलकं दद्याचित्रकूटस्स संज्ञितः । पञ्चभूमो विना भद्रैः किरणः सूर्यकर्णतः ॥ ३८ ॥ प्राग्नीवाश्चैव भद्रेषु भवेत्सर्वाङ्गसुन्दरः । वर्धमाने तु प्राग्नीवाः श्रीवत्स उदकान्तरैः ॥ ३९॥ व्यष्टकर्णा विनाभद्रं पद्मनाभोऽजपत्रवत् । रुचके तु चतुर्धारं स वैराज्याभिधानकः॥४०॥ वृत्तो वृत्तश्च कर्तव्य: शिखरं वलिकाकृति । इत्यष्टौ च प्रकर्तव्याः प्रासादाः सूर्यलोकजाः ।। ४१॥
इति सूर्यप्रासादायकम् ॥ सीमाभद्रं रुचकस्य पदपादेन निर्गतम् । नन्द्यावर्तस्तदानाम शिखरं कक्षकर्णके ॥४२॥ तश्चैवाऽऽयतं कुर्याद वलभी गजपृष्ठवत् । सुवर्णः सर्वतोभद्रे तद्पैः कर्णशङ्गकैः ॥४३॥ केशरी च भवेत्पूर्व सिंहः कणे तु कूटके । कूटोचे तिलकं दद्याद्विचित्र इति संशितः ॥४४॥ भद्रशङ्गाणि भद्रेऽब्धि-प्राग्ग्रीयोगपीठकः । वराटयुक् सर्वभद्रो घण्टानादश्चतुर्मुखः ॥ ४५ ॥ केशरी च भवेत्पूर्व कर्णे कुटानि कारयेत् । पञ्चकूदभवा रेखाऽष्टमो भद्ररथोद्गमैः ॥ ४६॥
इति देवीप्रासादाष्टकम् ॥