________________
अपराजितपृच्छा
वृत्तो वृत्तायतश्चैत्यः किङ्किणी लयनस्तथा । पट्टिशो विभवश्चैव तथा तारागणो मतः ॥ १५ ॥ प्रयुक्ताः सर्वदेवेषु प्रासादाः शाश्वताः शुभाः। एवमेव चतुःषष्टिः ख्याता: प्रासादकाभिधाः ॥ १६ ॥
इति चतुःषष्टिप्रासादाः ॥ नामानि कथितान्येवं लक्षणं शृणु साम्प्रतम् । विभक्तिभागसङ्ख्याश्च तलच्छन्दोर्ध्वमानतः ॥ १७ ॥ दशधा भाजिते क्षेत्रे द्विभागः कर्णविस्तरः। पञ्चभागं भवेद् भद्रमर्धभागा तु कर्णिका ॥ १८ ॥ कणे शङ्गाणि कार्याणि भूमिजानामनुक्रमैः । घण्टाकलशसम्युक्तो विमानः पञ्चभूमिकः ॥ १९ ॥ भद्रे चैवोद्गमाः पञ्च कणे शृङ्गाणि चाष्ट्र हि । नागरच्छन्दजः कार्यः सर्वभद्रो नवाण्डकः ॥ २० ॥ तस्यापि भद्रजं शृङ्ग गजपृष्ठस्तु कामदः । द्वयष्टकर्णः पञ्चभुमो विमानभद्रः पद्मकः ॥ २१ ॥ केशरी पूर्ववज्ञेयः कणे तिल कशृङ्गकैः। विमानजं च शिखरं वृषभः सर्वकामदः ॥२२॥ सर्वभद्रे कर्णभद्रं नाङ्गं मूलनासिकम् । मुक्तकोणः स विशेयः सर्वकामफलप्रदः ॥ २३ ॥ गजपृष्ठेद्वयुरुशङ्ग कर्तव्यं सर्वकामदम् । नलिनीकः स विज्ञेयः कर्तव्य त्रिपुरान्तके ॥ २४ ॥ मल्लतलं भूमिजवद् द्राविडकर्मचर्चितः । द्राविडस्तु तदा नाम कर्तव्यस्तु महेश्वरे ॥ २५ ॥
__ इति शिवप्रासादायकम् ॥ वर्धमानस्य संस्थाने पक्षे कुर्यात्तदृर्वतः । कूटावृतं च शिखरं पक्षिराजो गृहं श्रियः ॥ २६ ॥ याभ्योत्तरे विना पक्षं स भवेद्वर्धमानकः । शङ्खनाभिसमाकारः शावर्तस्तु सृष्टितः ॥ २७ ॥ श्रीवत्सभद्रकर्णेषु कुर्यात्तिलकशृङ्गकम् । प्ररथः स्याल्लतिनजः पुष्पकः संर्वकामदः ॥ २८॥ लताख्यसर्वतोभद्रं तादृक् शृङ्गे गृहेश्वरः। अष्टभद्रश्चाटकोणः स्वस्तिकः पञ्चभूमिकः ॥ २९ ॥ चतुरश्रं विना भट्टै रुचकः शिखरे तथा । अष्टभद्रो द्वयष्टकोणोऽश्वभूमः पुण्यवर्धनः ॥ ३० ॥
इति विष्णुप्रासादाष्टकम् ॥