________________
(१७९) विमानादि चतुःषष्टिप्रासादलक्षणात्मकमेकोनाशीत्युत्तरशततमं
सूत्रम् ॥
विश्वकोवाच
विमानः सर्वतोभद्रो गजपृष्ठश्च पन्नकः । वृषभो मुक्तकोणश्च नलिनीकश्च द्राविडः ॥ १॥ अष्टौ श्रेष्ठाश्च सर्वे वै प्रासादाः सर्वकामदाः । त्रिपुरान्तक एव स्यु ज्येषु तु कदाचन ॥२॥ गरुडो वर्धमानश्च शावर्तश्च पुष्पकः । गृहराजः स्वस्तिकश्च रुचकः पुण्यवर्धनः ॥ ३॥ अष्टौ प्रोक्ताः सर्वदेवः प्रासादाः सर्वकामदाः । विष्णुदेवस्य शस्ताश्च कर्तव्याः शान्तिमिच्छता ॥४॥ मेरुमन्दरकैलासा हंसो वै भद्र एव च । उत्तुङ्गो मिश्रकश्चैव तथा मालाधरोऽष्टमः ॥ ५॥ इत्ययौ ब्रह्मणश्चैव प्रासादाः पुरमध्यगाः। स्थापयेद् ब्रह्मकेन्द्रेषु चत्वारो वरुणसंयुतैः ॥ ६॥ गवयश्चित्रकूटश्च किरणः सर्वसुन्दरः। श्रीवत्स: पद्मनाभश्च वैराजो वृत्त एव च ॥ ७ ॥ सूर्यलोकोद्भवाश्चाष्टौ सृष्टाश्च त्रिदशैरिमे । इत्यष्टौ च प्रकर्तव्या रवेः पूर्वापराखाः ॥ ८॥ नन्द्यावर्तश्च वलभिः सुवर्णः सिंह एव च । विचित्रो योगपीठश्च घण्टानादपताकिनौ ॥९॥ शक्त्यावतारसम्भूता देवीनां च प्रशंसिताः। इत्यष्टौ च प्रकर्तव्याः प्रासादा: शुभलक्षणाः ॥ १०॥ गुहाधार: शलाकश्च वेणुभद्रश्चं कुञ्जरः । हर्षश्च विजयश्चैव उदकुम्भश्च मोदकः ॥ ११ ॥ अष्टौ सवै विघ्नहरा: सर्वे शान्तिप्रदायकाः । गणनाथस्य कर्तव्याः सर्वदोषः प्रशाम्यति ॥ १२ ॥ हर्यश्चैव महापद्मोज्जयन्तो गन्धमादनः । शतशङ्गो निरावेद्यो विभ्रान्तश्च मनोहरः ॥ १३॥ तिर्थङ्करोद्भवाः सर्वे सर्वशान्तिप्रदायकाः । जिनेन्द्रस्य प्रकर्तव्याः पुरमध्येषु शान्तिदाः ॥ १४ ॥