________________
(१७८) नपुंसक प्रासादलक्षणात्मकमष्टसप्तत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
संक्षेपे फांसनाकाराः प्रासादा ये भवन्ति च । तेषां नामानुक्रम च कथयामि समासतः ॥१॥ सुविशालं भद्रशान्ते श्रीजयं च जयावहम् । श्रीवत्सं हंसतिलक गरुई चारवर्धनम् ॥ २ ॥ शवनाभं सुनाभं च जयन्तं गन्धमादनम् । निषेधं शेखरं सौम्यं मन्दरं वै कैलासकम् ॥ ३॥ पृथ्वीजयं श्रीजयं च कैरात रत्नसंभवम् । वृषभं मेरुकूटं च पञ्चविंशतिरेव च ॥४॥ रुचकः पूर्ववद शेय: शिखरं फांसनाकृति । त्रिभूमं चोर्ध्वघण्टाच सुविशालं तु नामतः ॥५॥ चतुर्भूमं भद्रनामा शान्तं स्यात्पञ्चभूमिकम् । षड्भूमं श्रीजयं नाम सप्तभूमं जयावहम् ॥ ६॥ पञ्चभद्रं तस्य कार्य त्रिभूमोधोरुघण्टिका । पञ्चभूमं च कर्तव्यं धीवत्सं नाम शोभनम् ॥ ७ ॥ षड्भूमं हंसतिलके गरुडं सप्तभूमिकम् । सुवर्धनं चाटभूमं कर्तव्यं सर्वकामदम् ॥ ८ ॥ शशावर्त शङ्काभं सुनाभं वृत्तकं मतम् । जयन्तं च तथाऽष्टास्त्र स्वस्तिकं गन्धमादनम् ॥ ९॥ निषधं पद्मदलवच्छेखरं नवभूमिकम् । सौम्यं तु दशभूमं स्यान्मन्दरं रुद्रभूमिकम् ॥१०॥ द्वादश प्ररथा भद्रे भने द्विद्वयुरुण्टिकाः । नवभूमिकसम्युक्तं कैलासं सर्वकामदम् ॥ ११ ॥ पृथ्वीजयं दशभूमं श्रीजयं रुद्रभूमिकम् । सूर्यभूमं च कैरातं विश्वभू रत्नसंभवम् ।। १२ ॥ वृषभाख्यं शकभूमं तिथिभू मेरुकूटकम् । इति मानसमुद्दिष्टाः प्रासादा: फांसनोपमाः ॥ १३ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
नपुंसकप्रासादलक्षणाधिकारो नामाष्टसप्तत्युत्तरशततमं सूत्रम् ॥