________________
४५८
अपराजित पृच्छा सिंहकर्णास्ततश्चाऽष्टौ प्रतिकर्णाश्च षोडश । पञ्चघण्टासमायुक्तं सर्वतोभद्रलक्षणम् ॥ १६ ॥ मलच्छायं ख्यातमू सिंह नाम स उच्यते । मन्दरो नवघण्टादयः पुष्पभद्रः प्रभद्रके ॥ १७॥
इति सर्वतोभद्रचतुष्टयम् ॥
भके द्वादशधा छन् द्विभागो भद्रविस्तरः । कर्णतुल्यः प्रतिरथः शेषं युजीत पूर्ववत् ॥ १८ ॥ भद्रं वेदांशविस्तारं भद्रे चन्द्रावलोकनम् । त्रिच्छाद्यं मल्लच्छाद्योर्ध्वे कैलासो नवघण्टकः ॥ १९ ॥ भद्रे दद्यात् प्रतिभद्रं सिंहकर्णाश्च षोडश । जयन्तो नाम विख्यातः कान्तः स्यात् प्रतिभद्रके ॥ २० ॥ इति कैलासादित्रयम् ॥
चतुर्दशविभते च द्विभागा बाह्यभित्तयः । विधेयं पूर्ववकले बर्डशो भद्रविस्तरः ॥ २१ ॥ मलच्छाये पञ्चाद्यं शान्तिदः स्यान्मनोहरः । चारुवर्धनः प्रभद्रे सम्भवः पक्षकर्णिकः ॥ २२ ॥ प्ररथान्ते यदा कर्णी रत्नकूटः स नामतः । तारागणो द्विघण्टः स्याद् द्विकर्णश्च सुलोचनः ॥ २३ ॥ इतिमनोहराद्याः षट् ॥
भक्ते षोडशधा छन्दे द्विद्वयंशा भ्रमभित्तयः । शेषं गर्भे प्रकुर्वीत पूर्वमानप्रकल्पितम् ॥ २४ ॥ माल्यच्छाद्ये सप्तच्छाद्यं घण्टाः सप्तदशैव च । हिमवांश्च तदा नाम पूज्यः सुरवरोरगैः ॥ २५ ॥ सिंहकर्णद्विकं कुर्यात् हेमकूटः स उच्यते । भद्रं च कर्णिकायुक्तं कामदः पृथिवीजयः ॥ २६ ॥ मिश्रकोम्ब्वन्तरे कर्णी भद्रे ऐरावतस्तथा । भद्रा चैव निष्कासो हंसपक्षस्तु नामतः ॥ २७ ॥ द्विनिर्गमः पक्षिराजः कर्तव्यः सर्वकामदः । दारुच्छन्देषु चेत्युक्ताः पुष्पाद्याः पञ्चविंशतिः ॥ २८ ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्त पराजित पृच्छायां सिंहावलोकनप्रासादनिर्णयाधिकारो नाम सप्तसप्तत्युत्तरशततमं सूत्रम् ॥