________________
(१७७) सिंहावलोकनप्रासादनिर्णयो नाम सप्तसप्तत्युत्तरशततमं मूत्रम् ।।
विश्वकर्मोवाच---
प्रासादान् सम्प्रवक्ष्यामि जात्या सिंहावलोकनान् । छायोद्गमेषु घण्टाभिः सिंहकर्णैरनेकधा ॥ १॥ पुष्पको भद्रपद्माख्यो नन्दश्च नन्द्यावर्तकः । सर्वतोभद्रसिंहौ च मन्दरः पुष्पभद्रकः ।। २॥ कैलासश्च जयः कान्तो मनोहचारुवर्धनः । सम्भवो रत्नकूटश्च तारागणसुलोचनौ ॥ ३ ॥ हिमवान् हेमकूटश्च पृथ्वीजयसुमिश्रको । ऐरावतो हंसपक्षः पक्षिराट् पुष्पकोदयः ॥ ४॥ दारुकर्माराजिताश्च दारुजाः पञ्चविंशतिः। द्वारच्छाद्यलूमपातघण्टाधैः सिंहकर्णकः ॥ ५॥ चतुरश्रीकृते क्षेत्रे चाष्टधा प्रतिभाजिते । भागो भागा भ्रमो भित्तिस्तथा स्युमध्यभित्तयः॥६॥ शेष गर्भगृहं कुर्याद् विस्तारसममुच्छ्तिम् । मध्यगर्भ भित्तिसूत्रे भ्रमन्तीस्तम्भमोक्षयोः ॥ ७ ॥ सूत्रमानायतं कुर्यान्मण्डपं समसूत्रकैः। एकं द्वारं त्रीणि वाऽपि भद्रे चन्द्रावलोकनम् ॥ ८॥ तत्र छाद्यत्रयं कार्य चत्वारः सिंहकर्णकाः । ऊर्चघण्टा तथैकैव पुष्पकः सर्वकामदः ॥९॥ द्विभागः कर्णविस्तारो भद्रं भागचतुष्टयम् । निर्गतं चैकभागेन सर्वभद्रेश्वयं विधिः ॥१० ।। अव सिंहकर्णाश्च प्रतिकर्णाष्टकं तथा । भद्रको नाम विख्यातः सर्वदा भद्रकारकः ॥ ११ ॥ भद्रं तु कर्णिकायुक्तं चतुर्भिः सिंहकर्णकैः । पद्मकस्तु समाख्यातः कर्तव्यः सर्वदैवते ॥ १२ ॥ निर्गमो भद्रभागश्च सीमामानेन वित्तरः । नन्दनः स समाख्यातो नन्द्यावर्तः प्रभद्र के ॥ १३ ॥
_इति पुष्पकाद्याः पञ्च ॥ विभक्ते दशधा छन्दे द्विभागः कर्णविस्तरः । त्रिभागं च भवेद् भद्रं भद्रार्ध प्ररथस्तथा ॥ १४ ॥ भागो भागा भ्रमो भित्तिः शेर्ष गर्भगृहं मतम् ।
मण्डपं पूर्वमाख्यातं स्तम्भानां गर्भसूत्रतः ॥ १५ ॥ ५८ अ.