________________
४७६
अपराजितपृच्छा चिप्पिका चार्धभागोक्ता स्कन्धः स्वात्सार्धमागिकः । अन्तःपट्टी चार्धभागा कर्णको भाग एव च ॥ १६ ॥ चिप्पिका चार्धभागा स्याद् भागाधैं कामरूपिका । निर्गमश्चार्धभागो हि सपादा चैव चिप्पिका ।। १७ ।। सपावभागं कर्णकं पादा) पट्टिके उभे । त्रिभागः स्कन्ध इत्युक्तः पादभागं प्रवेशनम् ॥ १८॥ रूपकण्ठः पञ्चभागोऽर्धभागान्तरपट्टिका । चिप्पिका चार्धभागोक्ता कर्णोश उर्व उन्नतः ॥ १९ ॥ पादोनयंशरूपाणि कर्णश्चैवार्धभागिकः। अन्तःपत्रं भागपादं निर्गतं सार्धभागिकम् ॥ २० ॥ सप्तभागश्च विस्तारो निर्गमो दशभागिकः । विद्याधरा द्विरष्टांशाः प्रयोक्तव्याः प्रदक्षिणम् ॥२१॥ सार्धषटकं गजतालु भागाध तत्र चिप्पिका। चतुर्भागा भवेल्लमा भागार्धं कामरूपिका ॥ २२ ॥ अन्तःपत्रं पादभागं चिप्पिका द्वयंशनिर्गता। लूमा लूमासमा कार्या भागाध श्रवणं तथा ॥ २३ ॥ प्रथमा स्याद् द्विभागेन द्वितीया पद्धिरेव च । सार्धपञ्चभिस्तृतीया कोलं पञ्चाशमुन्नतम् ॥ २४ ॥ एकभागेन वलिका निर्गमेन पदाधिका । भागाध चिप्पिका शेया पनं स्यात्लार्धभागिकम् ।।.२५ ॥ विभागा बलिका शेया विस्तारे पिण्डके तथा । द्विभागा च भवेल्लमा कर्णो भागत एव च ॥ २६ ॥ पञ्चस्तरोद्गतं कोलं पृथुत्वे पञ्चभागिकम् । द्विभागोक्ता च वलिका सर्व स्तरान्तरेषु च ॥२७॥ पद्मकोणं त्रिकोणं व कोलानां पञ्चकं तथा । समाशृङ्गोद्गता कक्ष-सन्धौ स्यादू गजतालुका ॥ २८ ॥ नागविद्याधरा उक्ता गगाराग्रसन्धौ समाः । शृङ्गे कीर्तिमुखा: कार्याः शाखापत्रैरलकत्ताः ॥ २९ ॥ वारिकोक्ता च कर्तव्या? विद्याधरोपरिस्थिता। अष्टषोडश द्वादशाऽऽमलकैर्वृत्तकोपमाः ॥ ३० ॥ रुचका भद्रकाश्चैव वर्धमानास्ततीयकाः । अवाश्राः स्वस्तिकाश्चैव स्तम्भाः प्रासादरूपतः ॥ ३१ ॥