________________
(१७६) स्त्रीसंज्ञकवलभीप्रासादलक्षणात्मकं षट्सप्सत्युत्तरशततमं सूत्रम्॥
विश्वकर्मोवाच
अथातः सम्प्रवक्ष्यामि स्त्रीसंज्ञानमरालयान् । क्लभ्यन्वयविख्यातानायतान् शुभलक्षणान् ॥१॥ नन्दिनी हस्तिनी चैव शान्ता च कुमुदोद्भवा । हंसिनी हंसतिलका शृङ्गारा चाब्जमञ्जरी ॥२॥ कुमुदा स्वस्तिका रम्या माहेन्द्री पर्यन्तकी । अशोका चम्पकाख्याता वसन्ता नक्रकेतकी ॥३॥ गान्धारी सर्वतोभद्रा वर्धमानी श्रीशैलजा । नन्द्यावर्ती महाक्रान्तिमेरुकूटाभिधानका ॥४॥ त्रैलोक्यतिलका चैव विख्याताः पञ्चविंशतिः। इत्युक्ता वलभीसंशाः स्त्रीलिङ्गाश्च प्रकीर्तिताः ॥५॥ चतुर्भागश्च विस्तार आयतं पञ्चभागिकम् । भित्तिभंगा शुभो रम्यो गर्भः षट्पद उच्यते ॥६॥ गर्भतुल्या स्कन्धवेदी घण्टा स्कन्धाकृतिर्भवेत् । वेधूर्व चैव वलभी गजपृष्ठाकृतिर्भवेत् ॥ ७ ॥ वामदक्षिणतो लेख्या पुरः पृष्ठे ठकारिका । शुकनासाऽग्रतःख्याता नन्दिनी सर्वकामदा ॥ ८॥ त्रिभागं पृष्ठभद्रं च विभागं पक्षभद्रकम् । . हस्तिनी च समाख्याता कर्तव्या सर्वकामदा ॥ ९ ॥ कणे वार्यन्तरं कार्य भद्रे भद्रे ठकारिका। शान्ता सा च समाख्याता कृटाक्षा सर्वकामदा ॥ १० ॥ वार्यन्तरं भद्रमध्ये सा भवेत् कुमुदोद्भवा । यथा भद्रे तथा कणे हंसिनी सर्वकामदा ।। ११ ।। पृष्ठभद्रे मुखभद्रं सा हंसतिलका मता। तलच्छन्देषु चाऽऽद्येषु वलभीषट्कमेव च ॥ १२ ॥
इत्येकभूमिकाः षट् ।। षड्भागश्चैव विस्तार आयामोऽष्टांश एव च । सार्धभागा भवेद् भित्तिः शेषं गर्भगृहं भवेत् ॥ १३ ॥ कणे कूटानि कार्याणि भूमिकात्रयमेव च । तदूचे घेदिकास्कन्धो वलभ्यश्च तदूर्ध्वतः ॥ १४ ॥ चतुर्भाग पृष्ठभद्रं तदर्ध वामदक्षिणे । अर्धभागस्तुनिष्कासः कर्णे स्यादुदकान्तरम् ॥ १५ ॥