________________
अपराजितपृच्छा भने भद्रे च वलभी वाराटाकूट घण्टिका। शृङ्गारा च तदा नाम दुर्लभा देवदानवैः ॥ १६ ॥ अर्धभागा भद्रकणी भवेत् कुमुदमञ्जरी। भद्रेश्बुमार्गः कुमुदा श्वस्तिका कर्णसादृशैः ।। १७ ॥ पृष्ठभद्रे मुखभद्रं रम्या नाम तथोच्यते । पक्षभद्रे मुखभद्रं माहेन्द्री सर्वकामदा ॥ १८ ॥ पृष्ठभद्रे प्रतिभद्रं नाम्ना पर्यन्तकी मता। द्वितीयतलच्छन्देषु वलभीसप्तकं तथा ॥ १९ ॥
इति त्रिभूमिका: सप्त ॥ अष्टभागश्च विस्तार आयामो दशभागिकः। द्विभागो भित्तिविस्तार: शेर्ष गर्भगृहं भवेत् ॥ २० ॥ द्विभागः कर्णविस्तार उदकान्तरभूषितः। त्रिभागं भद्रमित्युक्तं भद्रा) प्ररथो भवेत् ॥ २१ ॥ भागार्ध निर्गमं कुर्याद् रथे प्रतिरथेऽथवा । त्रिभागं कुक्षिभद्रं च भागाधै पक्षकर्णिका ॥ २२ ॥ गर्भतुल्योच्छिता वेदी पञ्चभूमा हिता तथा। रथोपरथकणे तु कूटैश्च विविधैः क्रमात् ॥ २३ ॥ वेचे वलभी चैव ह्यालेण्या वामदक्षिणे । अशोका नाम विख्याता संसारशोकत्रासिनी ॥ २४ ॥ वार्यन्तरं प्रतिरथे चम्पका सर्वकामदा । भद्रोदकैर्वसन्ता स्यात् कणे मकरकेतकी ॥ २५ ॥ पुन: कार्य प्रतिरथे गान्धारी सर्वकामदा। भद्रे भने प्रतिभद्रं सर्वतो भद्रिका भवेत् ॥ २६ ॥
. इति पञ्चभूमाः षट् ॥ दशभागश्च विस्तार आयामश्च द्विसप्तकम् । द्विभागा च भवेद् भित्तिः शेषं गर्भगृहं भवेत् ॥ २७ ॥ द्विभागः कर्णविस्तारः सार्धः प्रतिरथो भवेत् । द्वितीयस्तेन मानेन भद्रं वेदांशविस्तरम् ॥ २८ ॥ त्रिभागो भद्रविस्तारो भागाध पक्षकर्णिका। कुक्षिभद्रं त्रिनिर्भागस्तदर्धः प्ररथो भवेत् ॥ २९ ॥ गर्भतुल्योर्धवेदी च भूमिका: सप्त चोच्छ्तिाः । वटैद्रविड कूटनागौश्च विशेषतः ॥ ३० ॥