________________
अपराजितपृच्छा
द्वयष्टभागोदयं कृत्वा विभजेत्तदनन्तरम् । द्विभागा च भवेज्जङ्घा द्विगुणः कुटकोदयः ॥ ३९ ॥ एकभागा भवेज्जका त्रिभाग कूटमुन्नतम् । जलाध सार्धद्वयांशं कुटं घण्टा च व्यशिका ॥ ४०॥
इति त्रिभूमिकः॥ विशत्यंशोदयं कृत्वा विभजेत्तदनन्तरम् । द्विभागा च भवेज्जङ्घा द्विगुणः कूटकोदयः ॥ ४ ॥ साधु जङ्घा त्रिभिः कुटं जङ्घका सार्धक्यंशकम् । अर्ध जच्चा द्वयंशकुट पदिका सार्धभागिकम् ॥ ४२ ॥ एकांशां च तथा घण्टां कुर्यान्मन्दारपुष्पवत् । पञ्चभूम इति ख्यातः कर्तव्यः सर्वकामदः ॥४३॥
इति पञ्चभूमिकः ॥ त्रिचत्वारिंशद्भाजित कथ्यते सप्तभूमिकः । व्यंशा जङ्घा सप्तकूटं त्र्यंशा जङ्घा च षट् ततः ॥ ४४ ॥ जङ्घा द्वयंशाः पञ्चकूटं द्वौ जचा वेदकूटकः । सार्ध जङ्घा त्रिभिः कुटं जकैकांशा द्विकूटकम् ॥४५ ।। अर्ध जङ्घा भागकटं घण्टा भागद्वयोन्नता । इतीत्थं सप्तभूमश्च कर्तव्यः सर्वकामदः ॥ ४६॥
इति सप्तभूमिकः ॥ एकषण्युदयं कृत्वा विभजेन्नवभूमिकम् । वेदा जङ्घा चाकूटं वेदा जवाऽश्वकूटकम् ॥ ४७ ॥ ध्यंशाजङ्घा च षट्कूटं त्रिजङ्घा पञ्चकूटकम् । द्वौ जङ्घा कूटकं वेदा द्वौ जङ्घा कूटकं त्रयः ॥ ४८ ॥ सार्धा जङ्घा सार्धद्वयं भागं जङ्घा द्विकूटकम् । जवार्ध कूटको भागो घण्टास्यास्सार्धभागिका ॥ ४९ ।।
इति नवभूमोदयः॥ बराटः पुष्पकश्चैव श्रीपुञ्जः सर्वतोभवः । एते कूटैः समावृत्ताः कर्तव्याः सर्वकामदाः ॥ ५० ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
वराटप्रासादलक्षणाधिकारो नाम पञ्चसप्तत्युत्तर शततमं सूत्रम् ॥