________________
४५२
प्रासादाधिकारो नाम पञ्चसप्तत्युत्तरशततमं सूत्रम् ॥
कर्णे त्यक्त्वाऽनुगे दद्यात् पताको नाम शोभनः । रथे प्रतिरथे कर्णे भवेन्नन्दन उत्तमः ॥ २६ ॥
इति पताकनन्दनौ १७-१८ ॥
इति पञ्चभूमाः षट् ॥
चतुर्दशविभक्ते च द्विभागः कर्णविस्तरः । भवेत्तदृद्विगुणं भद्रं निर्गमश्चार्धभागिकः ॥ २७ ॥ भद्रकर्णयोर्मध्ये द्वौ द्वौ प्रतिरथौ तथा । निर्गतं चार्धभागेन सार्धभागस्तु विस्तरः ॥ २८ ॥ सप्तभूमिश्च कर्तव्यः स श्रीतिलकनामकः । भद्रे वाय्र्यन्तरे द्वे च महाकान्तस्स उच्यते ॥ २९ ॥ इति श्रीतिलकमहाकान्तों १९-२० ॥
कर्णोदकैः सुन्दरः स्यात् प्ररथे चारुवर्धनः । भद्रेषु प्रतिभद्रं च भवेत् कमलसंज्ञकः ॥ ३० ॥
इति सुन्दर चारुवर्धन कमलाः ॥
२२.
नोदकान्तरे छे छे किरणो नाम नामतः ।
इति किरणः : २४ ॥ सप्तभूमाश्च कर्तव्याः प्रासादा: शुभलक्षणाः ॥ ३१ ॥ इति सप्तभूमाः षट् ॥
छन्देऽष्टादशधा भक्ते द्विभागः कर्णविस्तरः | पादोनद्वशः प्ररथः सार्धं स्यात्तत्र चानुगम् ॥ ३२ ॥ बालपञ्जरः सपादो भद्रं स्यात्पञ्चभागिकम् | भागाबुभे कर्णिके च. वेदांशं मुखभद्रकम् ॥ ३३ ॥ नवभूभाश्च कर्तव्या घण्टा मन्दारपुष्पवत् 1 शुकाप्रयुक्तश्च महा-पद्मः स्यात् सर्वकामदः ॥ ३४ ॥ इति महापद्मः २५ ॥ इति नवभूमएकः ॥
स्तम्भाद्याचैव गर्भाद्याः पादा: श्रीतर्यमानत: ? । चतुर्विंशतिभिश्चारै रेखाभिश्च वराटकाः || ३५ || वराटे द्राविडे चैव घण्टान्त उदयः स्मृतः I प्रोताश्च विविधाश्छन्दाः प्रयुक्ता वास्तुवेदिभिः ॥ ३६ ॥ कर्णमानोदयं सर्व घण्टान्तं च प्रकल्पयेत् । दशभागोदयं कृत्वा विभजेत्तदनन्तरम् ॥ ३७ ॥ द्विभागा च भवेज्जङ्घा द्विगुणः कूटकोदयः । चतुर्भागोया घण्टा विभागो ह्येकभूमिके ॥ ३८ ॥
इत्येकभूमिकः ॥