________________
४५१
अपराजितपृच्छा क्षेत्रार्धे च भवेद् भद्रं भद्राधे कर्णविस्तरः । कर्णाधंस्य प्रमाणेन कर्तव्यो भद्रनिर्गमः ॥ १४ ॥ पञ्चभागो भवेद् गर्भश्चत्वारश्चार्धपञ्चमाः। कणे भद्रे च कूटानि सर्वभद्राणि कारयेत् ॥१५॥ एकभूम्यूघण्टां च कुर्यान्मन्दारपुष्पवत् । सिंहनामा समाख्यातः प्रासादः पार्वतीसुखः ॥ १६ ॥
इति सिंहः ५॥ प्रतिभद्रे सिंहभद्रो भद्रे हिद्विजलान्तरम् । कर्णिकारोऽथ कुमुदः कर्णे तद्रपके तथा ॥ १७ ॥
इति सिंहभद्रकर्णिकारकुमुदाः । इत्येकभूमिका अधौ ॥ बतुरस्रं समं क्षेत्रं शतमूलविभाजितम् । द्विभागः कर्णविस्तारो भद्रं भागत्रयं भवेत् ॥ १८ ॥ भद्राधे च प्रतिस्थानमुभयोमिदक्षयोः । भागपादेन निष्कासो भद्रे प्रतिरथेऽथवा ॥ १९ ॥ कर्णे प्रतिरथे सर्वभद्राणि त्रीणि त्रीणि च ।। वलभीत्रितयं भद्रे घण्टामन्दारपुष्पवत् ॥२०॥ वर्धमानस्तदा नाम कर्तव्यः सर्वकामदः ।
इति वर्धमानः ९॥ भद्रे चाय॑न्तरे द्वे चेद् श्रीवत्सः स तदोच्यते ॥ २१ ॥
___ इति श्रीवत्सः १०॥ यथा भद्रे तथा कर्णे पुण्डरीकश्च नामतः।
इति पुण्डरीका ११ ॥ तथा रूपं प्रतिरथे सुनाभो नाम उच्यते ॥ २२॥
इति सुनाभः १२॥ इतित्रिभूमाश्चत्वारः॥ कर्णतुल्यः प्रतिरथश्चतुर्भागं च भद्रकम् । पञ्चभूमिसमायुक्तो वेणुको नाम शोभनः ॥ २३ ॥
इति वेणुक: १३॥ कर्ण प्रतिरथं भद्रं चतुरथं प्रकल्पयेत् ।। भद्रं च कर्णिकायुक्तं स भवेत् सिंहपञ्जरः ॥ २४ ॥
इति सिंहपञ्जर: १४॥ द्विद्विवार्यन्तरं भद्रे नन्द्यावर्तश्च नामतः । यथा भद्रे तथा कर्णे पूर्णाक्षो नाम नामतः ॥२५॥
इति नन्द्यावर्तपूर्णाक्षौ १५-१६ ॥