________________
४४८
अपराजितपृच्छा सपाद जवांऽशकः कूटो वेदी स्यादर्धभागिका । पादोनयंशका घण्टा कर्तव्याश्च त्रिभूच्छ्याः ॥ १५॥
इति त्रिभूमिकाः पश्च । विभक्ते चाऽध्धा छन्दे द्विभागः भद्रविस्तरः। भागभागं रथको तत्तदर्थं स निर्गतम् ॥ १६ ॥ स्वस्तिकश्च समाख्यातः शङ्ककर्णस्तु भद्रके । गोविन्दो मुखभद्रेषु भद्रोदनन्दिवर्धनः ॥ १७ ॥ हो द्वौ प्रतिरथौ भद्रे स भवेत्पृथिवीजयः । वर्धमानो यदा कर्णः पताकः सर्वकामदः ॥१८॥ पीठोचे कर्णमानेन षड्विंशतिभाजिते । जङ्घा सार्धत्रयं कुर्यात् कूटं वै पादयुक्त्रयम् ॥ १९ ॥ त्रिभागं च पुनर्जङ्घा कूटं पदविवर्जितम् । सार्धद्विभागा जङ्घा च कूटं पादयुतद्वयम् ॥ २० ॥ विभागं च तथा जङ्घा कूटं पादोनद्वयंशकम् । जङ्घा च सार्धभागोक्ता कूटं भागसमुच्छ्रितम् ॥ २१॥ अर्धभागा भवेद् वेदी घण्टा पादोनद्वयंशका । एवमादिगुणोपेताः कर्तव्याः पञ्चभूमिकाः ॥ २२ ॥
_इति पञ्चभूमिकाः षट् ।। विभक्ते दशधा छन्दे द्विभागो कर्णविस्तरः। पादास्त्रयः प्रतिरथा स्तत्तदर्ध विनिर्गतम् ॥ २३ ॥ मध्ये भद्रस्य कर्णस्य प्ररथाश्च त्रयस्त्रयः । उदकान्तरसंयुक्ताः कर्तव्याः सर्वकामदा: ॥ २४ ॥ सर्वाङ्गः स समाख्यातः प्रभद्रे सर्वभद्रकः । सुन्दरः कर्णभद्रे स्याद् भद्रोदके तु सम्भ्रमः ॥२५॥ भद्राणि च प्रतिरथे जनानन्दः स उच्यते । कणे चाऽष्टदलं कार्य द्वितीयं प्ररथे तथा ॥ २६ ॥ शेषे युग्मप्रतिरथे कार्या वै वर्धमानकाः। क्षितिधरस्तदा नाम प्रासादः सुरवल्लभः ॥ २७ ॥ पीठो कर्णमानेन पञ्चत्रिंशत्समुच्छ्रितिः। आदिजङ्घा चतुर्भागं पादोनं कूटमुच्छ्तिम् ॥ २८॥ पादहस्वा भवेज्जका पादोनं कूटमुन्नतम् ।। एवमादिक्रमयोगे भागं कूटं तु सप्तमम् ॥ २९ ॥ अर्धभागं भवेद्देदी घण्टा भागद्वयोन्नता। एवंविधं प्रकर्तव्यं नवाङ्गं सप्तभूमिकम् ॥ ३०॥
इति सप्तभूमिकाः षट् ॥