________________
(१७४) द्राविडप्रासादलक्षणात्मकं चतुःसप्तत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच----
इदानी द्राविडान् वक्ष्ये प्रासादान् सर्वकामदान् । पीठपञ्चकमित्युक्तं तलछन्दास्तु पञ्चधा ॥१॥ पेन्द्रोद्भवो राजहंसो नन्दनः सिंहपञ्जरः। इयङ्गाश्चत्वार एवोक्ता द्राविडा एकभूमिकाः ॥ २॥ गरुडो वर्धमानश्च श्रीतरु: प्रमदाप्रियः ।। नन्दिधोषः समाख्याता: पञ्चाङ्गाश्च त्रिभूमिकाः ॥ ३ ॥ स्वस्तिकः शङ्ककर्णाख्यो गोविन्दो नन्दिवर्धनः । पृथ्वीजय: पताकश्च सप्ताङ्गाः पञ्चभूमिकाः ॥४॥ सर्वाङ्गः सर्वतोभद्रः सर्वसुन्दरसम्भ्रमौ । जनानन्दः क्षितिधरो नवाङ्गाः सप्तभूमिकाः ॥ ५॥ पद्मसूत्रो महापद्मः कैलासो मेरुनायक। चत्वारो वृत्तका उक्ता द्राविडाः पञ्चविंशतिः ॥ ६ ॥ भक्तं वेदाथकं चार्धे भद्रं पादं च निर्गतम् । ऐन्दोद्भवः पदं कर्ण उदकान्तरभूपितः ॥ ७ ॥ भद्राधे मुखभद्रं च राजहंसश्च नामतः । भद्रोदये नन्दनाख्यः कर्णभद्रे च पञ्जरः॥ ८ ॥ पीठोज़ कर्णमानेन विभक्तं पञ्चभागिकम् । सार्धभागे भवेज्जका सपादः कूटकोदयः॥९॥ वेदी पादोनभागा स्याद् घण्टा वै सार्धभागिका । ऊर्ध्वं कलशमाख्यातं कर्तव्यं सर्वकामदम् ॥ १० ॥ एकभूमाश्च चत्वारो गरुडं च ततः शणु । षड्भागश्चैव विस्तारो भागः प्रतिरथो भवेत् ॥ ११ ॥ निर्गमोऽधं वार्गियुक् शेषं पूर्वप्रकल्पितम् । गरुडाख्यो मुखभद्रे वर्धमानः स उच्यते । भद्रोदके श्रीधरो भद्रकणे प्रमदाप्रियः ॥ १२॥ यदा प्रतिरथे भद्रं नन्दिघोषः स उच्यते । पीठो कर्णमानेनादये त्रिदशभाजिते ॥ १३ ॥ सपादद्वयंशका जङ्घा कूट भागद्वयोन्नतम् । पादोनद्वयंशका जङ्घा सार्धः कूटसमुच्छ्यः ॥ १४ ॥