________________
अपराजितपृच्छा नीडवर्ती पञ्चभागा द्विभागा पद्मपत्रिका । एकभागा कर्णिका च कुमुदं त्रिपदोन्नतम् ॥ १५ ॥ छेदो भाग द्वयं कण्ठः पट्टिका भागमेव च । पद्मपत्री भवेद् भागं रसना च द्विभागिका ॥ १६ ॥ छेदो भागः प्रकर्तव्यो नाम्ना स स्यात् प्रतिक्रमः । ऊनविंशतिभागैश्च कर्तव्या तु समुच्छितिः ॥ १७ ।। नीडवर्ती चतुर्भागा द्विभागा पद्मपत्रिका । कर्णिका चैकभागेन द्विभागा कुमुदोन्नतिः ॥१८॥ मेषो नक्रश्च मकरी-पट्टी छेदश्च भागतः । कण्ठः पट्टी भागभार्ग भागा स्यात्पद्मपत्रिका ॥ १९ ॥ कपोतस्तु त्रिभागैः स्याच्छेदो वै भाग एव च ।
आवृतः पञ्चमः पीठो नाम्ना खुरकबन्धनः ॥ २० ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायांद्राविडप्रासादपञ्चपीठलक्षणाधिकारो नाम त्रिसप्तत्युत्तरशततमं सूत्रम् ।।