________________
(१७३) द्राविडप्रासादपश्चपीठलक्षणात्मकं त्रिसप्तत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
द्राविडांश्च प्रवक्ष्यामि प्रासादान शुभलक्षणान् । पीठान्पश्चैव सम्प्रोक्तान् कथयिष्याम्यनुक्रमात् ॥ १॥ पादबन्धन आद्यः स्याच्छ्रीबन्धाख्यो द्वितीयकः । तृतीयो वेदबन्धाख्यश्चतुर्थश्च प्रतिक्रमः ॥ २॥ पञ्चमः पीठ आख्यातो नाम्ना खुरकबन्धनः । एकैकानुक्रमं वक्ष्ये शृणु चैकानमानसः ॥ ३ ॥ उत्सेधं भागविंशत्या विभनेत्पादबन्धने । श्रीवन्धे सप्तविंशत्या विंशत्या वेदिवन्धने ॥ ४ ॥ प्रतिक्रमे नवदश विंशत्या खुरके तथा । तदनुक्रमतः प्रोक्तं प्रवक्ष्ये पादबन्धने ॥५॥ खुरकः पञ्चभागस्तु द्विभागा पद्मपत्रिका। त्रिभागश्च कपोत: स्याच्छेदो भागः प्रकीर्तितः ॥ ६॥ कण्ठो द्विभागः कर्तव्यस्त्रिभागा पद्मपत्रिका । व्यंशः कपोतः पट्टी तु भागा स्यात्यादबन्धने ॥ ७॥ नीडवर्ती चतुर्भागा द्विभागा पद्मपत्रिका । एकभागा कर्णिका च कुमुदे व्यंशकोन्नतिः ॥ ८॥ छेदो मेषश्च मकरो नऋपट्टी च छेदकः । कण्ठश्च पट्टिका वेदी छेदः स्युर्भागभागतः ॥९॥ द्विभागः कण्ठ इत्युक्तः पट्टिका भागमेव च । पद्मपत्री भवेद भागा कपोताली त्रिभागिका ॥ १० ॥ छेदस्तथैकभागः स्याच्छीबन्धाख्यः समुन्नतः । सप्तविंशत्युन्नतः स्यात् प्रवक्ष्ये वेदिबन्धनम् ॥ ११ ॥ नीडवर्ती चतुर्भागा द्विभागा पद्मपत्रिका। कर्णिका भागमेकं तु त्रिभागा कुमुदोन्नतिः ॥ १२ ॥ छेदो मेषश्च मकरो नकपट्टी च छेदकः । कण्ठः पद्मपत्री च भागभागं समुन्नतः ॥ १३ ॥ वेदी त्रि(द्वि)भागा कर्तव्या भागा स्याच्छेदकोन्नतिः । वेदीवन्धन उक्तश्च विंशत्यशैः समुच्छ्रितः ॥१४॥