________________
ક
अपराजित पृच्छा
सान्धारो मध्य आख्यातो भद्रे चन्द्रावलोकना । वज्रसम्भव आख्यातः कर्तव्यः सर्वशान्तिदः ॥ १५ ॥ भक्ते छन्दे च मन्वंशैः स्तम्भकः सार्धभागतः । हिमवत्पूर्वकं शेषं पुराख्यः सर्वकामदः ॥ १६ ॥ सुन्दरः प्राग्ग्रीवयुक्तश्चैत्यो वाराटशृङ्गतः । विशालो हीनप्राग्ग्रीवः सान्धारे भट्टसंज्ञकः ॥ १७ ॥
द्राविडे पक्षशृङ्गाणि मन्दरः सर्वकामदः । लतायुक्तस्तु कुर्माख्यः सौम्यो मत्तावलम्बकैः ॥ १८ ॥
ऐरावतश्च प्राग्ग्रीवैश्चतुर्वक्त्रैर्मालाधरः । सान्धारश्छन्द आख्यातो भद्रे चन्द्रावलोकना ॥ १९ ॥
मेरुः प्रासाद आख्यातः कर्तव्यः सर्वदैवते । कर्त्ता शिवपुरं याति कौबेरं पदमाप्नुयात् ॥ २० ॥
इति सूत्र सन्तान गुणकीर्तिप्रकाशप्रोक्तृ श्री भुवन देवाचार्यो का पराजित पृच्छायां विमानप्रासादलक्षणाधिकारो नाम द्वासप्तत्युत्तरशततमं सूत्रम् ॥