________________
(१७२) विमानप्रासादलक्षणात्मकं द्वासप्तत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
विमानांश्च प्रवक्ष्यामि प्रासादान शिखरोत्तमान् । नागर-छन्द आख्यातो भूमिजः शिखरोद्गमः ॥ १॥ विमानो गरुडो ध्वजो विजयो गन्धमादनः । हिमवान् हेमकूटश्च कैलासत्रिपुरोद्भवः ॥२॥ श्रियो हंसो हंसपक्ष उद्योतो वज्रसंभवः । पुराख्यः सुन्दरश्चैत्यो विशालो भद्रसंज्ञकः ॥ ३॥ मन्दरः कर्मसौम्यौ च ऐरावतो मालाधरः । मेरुर्विमानान्वयज्ञाः प्रासादाः पञ्चविंशतिः ॥४॥ नवधा भाजिते क्षेत्रे द्विभाग; कर्णविस्तरः । पञ्चभागं भवेद् भद्रमेकभागेन निर्गतम् ॥ ५॥ भागार्ध क्षोभयेत्याचे निर्गमश्चार्धभागिकः । चतुर्भागं च विस्तारे मुखभद्रं विधीयते ॥ ६ ॥ कणे शङ्गं वारिमार्गभूमिजानामनुक्रमैः। घण्टाकलशसंयुक्तो विमानः पञ्चभूमिकः ॥ ७॥ प्राग्नीवाश्च चतुर्भद्रे गरुडः सर्वकामदः । चतुद्वारैर्ध्वजो नाम सर्वदेवसुखावहः ॥ ८॥ रुद्रांशै जिते छन्दे भागा स्यात्पक्षकर्णिका ! विधेयं पूर्ववच्छेषं विजयः सर्वकामदः ॥ ९ ॥ कर्णिकाभिश्चोर्ध्वशङ्गं स भवेद् गन्धमादनः । भक्ते द्वादशधा छन्दे प्ररथः सार्धभागतः ॥ १० ॥ कणे प्रतिरथे चैव शिखरे पञ्चभूमिकः । आख्यातो हिमवान् हेम-कूटस्तु समनिर्गमः ॥ ११ ॥ कर्णत्यागे भवेद्रेखा कैलासः पञ्चभूमिकः । भद्रकणे च कुमुदः स भवेत्रिपुरोद्भवः ॥ १२ ॥ मत्तालम्बो मुखभद्रे श्रियो वै सर्वकामदः । शिखरे वै लता कार्या हंसनामा स उच्यते ॥ १३ ॥ प्राग्नीवास्तस्य मध्ये च हंसपक्षस्तु ब्रह्मजः । चतुरिसमायुक्त उद्योत उदयोद्भवः ॥ १४ ॥