________________
अपराजितपृच्छा चतुष्पदानि भद्राणि कर्णा द्विपदविस्तराः । षट् षट् कार्या भद्रमध्ये ह्यष्टभूमिसमुचितिः ॥६६॥ द्वौ द्वावष्टदलाः कार्या वर्धमानद्विकद्विकम् । द्वौ द्वौ भद्रकयुकाश्च कर्तव्याः सर्वकामदाः ॥ ६७ ॥ घण्टाकलशशस्ताश्च शान्तिदाश्च पुरः पतेः । इति मानं समुद्दिष्टं वृत्तानां भूमिजेषु च ॥ ६८ ॥
इति सप्तवृत्तजातयः ॥ कर्णान्तवृत्तं वेदाधे परिधो द्विनगांशतः । भद्राणि पश्चपादानि ख्यातानि पूर्वच्छन्दके ॥ १९ ॥ चतुष्पदो भवेत्कर्णः पञ्चभूमिसमुच्छ्रितः। घण्टाकलशशोभायः स्वस्तिको नाम नामतः ॥ ७० ॥ भद्रकेषु च कर्णेषु वज्रशङ्गं निधापयेत् । वज्रस्वस्तिक आख्यातः शक्रादिसुरवल्लभः ॥ ७१ ॥ वेदोत्तरशतांशैश्च परिधि तत्र कारयेत् । सप्तभूमो हम्यतलः कलाकर्णोऽष्टभद्रकः ॥७२॥ हर्म्यतले श्रीतिलकः स्वस्तिके वज्रस्तथा । भागतः परिधी भक्के शतं षट् त्रिंशदुत्तरम् ॥ ७३ ॥ उयष्टकोऽष्टभद्रश्च नवभूमिसमुच्छ्तिः । पृथिवीभषणो वजे वज्रस्वस्तिकपूर्वके ॥ ७४ ॥ अन्यथा पृथ्वीभूषण छन्दैकोद्भवाख्यकम् ?।। पूर्व शेयः स्वस्तिकश्च भद्रं वै सप्तभागिकम् ॥ ७५ ॥ कर्णोद्गमो द्विभागः स्याद् - - - - - - - - । भद्रेच शृङ्गमेकैकं स भवेद् गन्धमादनः। त्रैलोक्यभूषणो नाम द्विद्विशृङ्गसमुद्भवः ॥ ७६ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
भूमिजप्रासादलक्षणाधिकारो नामैकमप्तत्युत्तरशततमं सूत्रम् ।।