________________
भूमिज प्रासादलक्षणाधिकारो नामैकसप्तत्युत्तरशततम सूत्रम् ॥ पशिद्भक्तपरिधौ भद्रान्तद्विद्विकर्णिकाः । चतुर्भूमश्च कमलो घण्टाकलशकोन्नतः ॥ ४९ ॥ कर्णाश्चाष्टदलाकाराः कर्तव्यास्सुमनोरमाः ।। एवंविधः प्रकर्तव्यः कमलो नाम शोभनः ॥ ५० ॥ कमलोद्भवक्षेत्रं तु चतुर्दशविभाजितम् ।। द्विभागः कर्णविस्तारो भद्रं षड्भागिकं तथा ॥ ५१॥ कर्णतुल्यः प्रतिरथो विकणे चाऽपि संस्थितः। पञ्चभूम्युच्छ्तिं कुर्याद् घण्टाकलशभूषितम् ॥५२॥ पञ्चमांशे भवेद् भित्तिः शेषं गर्भगृहं भवेत् । एवंविधः प्रकर्तव्यो नाम्नाऽसौ कमलोद्भवः ॥ ५३॥ शतशङ्गमथो वक्ष्य प्रासादं सर्वकामदम् । वल्लभं सर्वदेवानां शिवस्यापि विशेषतः ॥ ५४॥ वेदाधे भक्तिभागाश्च विंशतिस्त्वेकवर्जिता। पञ्चभागं भवेद् भद्रं द्विभागः कर्णविस्तरः ॥ ५५ ॥ भद्रकर्णकयोर्मध्ये द्वौ द्वौ प्रत्यङ्गको स्मृतौ। पञ्चमाशे भवेद् भित्तिः शेषं गर्भगृहं भवेत् ॥ ५६ ॥ सप्तभूमसमुत्लेधो घण्टाकलशभूषितः । कर्णाश्चाष्टदलाः कार्याः प्रत्यङ्गं वर्धमानवत् ॥ ५७ ॥ अर्जुनफलसंयुक्ता बालपञ्जरिका मता। एवंविधं प्रकर्तव्यं शतशङ्गस्य लक्षणम् ॥ ५८ ॥ विभक्तं पञ्चविंशत्या वक्ष्ये सर्वाङ्गसुन्दरम् । यथा भद्रं तथा कर्णः प्रभद्रं शतशृङ्गवत् ॥ ५९॥ भद्रकर्णकयोर्मध्ये त्रित्रिप्रत्यङ्गक तथा । कर्णाश्चाष्टदलाः प्रोक्ताः प्रत्यङ्ग वर्धमानवत् ॥ ६०॥ अर्जुनफलैस्तुल्यं तदने भद्रकं भवेत् । पञ्चमांशयुता भित्तिः शेषं गर्भगृहं भवेत् ॥ ६१ ॥ नवभूमिसमायुक्तं कुर्यात्सर्वाङ्गसुन्दरम् । अष्टचत्वारिंशदशैर्भक्ते भद्रं युगांशकम् ।। ६२॥ वेदा वेदा भद्रमध्ये कर्णाः कार्या द्विपादकाः। भद्रान्ते वर्धमानाश्च ह्यष्टांशा युग्मतः स्थिताः॥६३ ॥ षड्भूमिकोच्छ्तिः कार्यः किरणः सर्वकामदः । नष्टकर्ण रथयुग्मं कमलः पूर्ववत् स्थितः ॥ ६४ ॥ उच्छ्ये किरणच्छन्दो निरावेदः कलाधिकः ।
निरावेदस्य परिधौ चतुष्षष्ट्या विभाजिते ॥६५ ॥ ५६ अ.