________________
४४०
अपराजितपृच्छा मन्दरस्तु समाख्यातः क्रमत्यागे प्रभामणिः । भित्यन्ते च क्रमं त्यक्त्वा ततो रेखाश्च भूमिजाः ॥ ३३॥ . कणे प्रतिरथे चैव लताशकाणि कारयेत् । त्र्यंशपादत्रयं कुर्यात्पादोनत्रयमेव च ॥ ३४ ॥ सार्धत्रयं प्रकर्तव्यं साधभागा तु वेदिका । पञ्चाङ्गाः पश्चभूमाश्च घण्टाकलशमूर्ध्वतः ॥ ३५॥ .
इति पञ्चाङ्गास्नयः॥ क्षेत्रे च पञ्चदशभिर्भूजकर्णविशोधिते । द्विभागः कर्णकः साधौ रथः प्रतिरथस्तथा ॥३६॥ पञ्चभागं भवेद् भद्रं विस्तरे च प्रकीर्तितम । रथे प्रतिरथे भद्रे भागभागो विनिर्गमः ॥ ३७॥ माल्यवानिति सम्प्रोक्तो मलयं च ततः शणु । रथो भागः सपादश्च प्ररथश्च ततोऽधिकः ॥ ३८ ॥ एवं मलय आख्यातः कथ्यते भूमिकोदयः । सूर्यसेना विभिर्भागैः पादहस्वैः सप्ताङ्गके ॥ ३९ ॥ सार्धभागा भवद्वेदी घण्टाकलशमूर्ध्वतः। सप्ताङ्गाः सप्तभूमाश्च माल्यवान्मलयस्तथा ॥ ४०॥
इति सप्ताङ्गद्धयम् ।। क्षेत्रेऽष्टादशधा भक्त शुद्धच्छन्दे नवाङ्गकाः । को द्विभागो विस्तारे शेषा वा पादहासिताः ॥ ४१ ।। कणे रथे प्रतिरथे बालपञ्जरभद्रकम् । पञ्चभागं भवेद् भद्रं भाग: स्याहलनिर्गमः ॥ ४२ ।। नवमालिक आख्यातः पृथ्वीध्वजमत: शणु । सार्धभागः प्रतिरथो भद्रं वै सार्धपञ्चकम् ॥४३॥ कृत्वा पञ्चदशोत्सेधमष्टादशविभाजितम् । त्रिभागा चोच्छ्तिा भूमिः शेषाः पादेन हासिताः ॥ ४ ॥ ऊर्ध्ववेदी भवेद् भागा घका पूर्व प्रकल्पिता। नवाङ्गा नवभूमाश्च प्रासादा भूमिजा मताः ॥ ४५ ॥
इति नवाङ्गद्धयम् ।। चतुरधीकृते क्षेत्रे प्रासादा वृत्तजातयः । पञ्चमांशे भवेद् भित्तिः कर्णान्ते वृत्तमालिखेत् ॥ ४६॥ अष्टाविंशत्यंशपरिधौ भद्रं पञ्चभागिकम् । द्विपदश्च भवेत्कर्णस्त्रिभूमः कुमुदो भवेत् ॥ ४७ ॥ कर्णाश्चाष्टदला: कार्याः भद्रालेखैरलङ्कताः। ऊवें घण्टाकलशयुक् कुमुदः सर्वकामदः ॥ ४८ ॥