________________
४३९
भूमिजप्रासादलक्षणाधिकारो नामैकसप्तत्युत्तरशततमं सूत्रम् ।। पृथग्मानोदयं कृत्वा क्षित्यन्त भागसङ्ख्यया । सपादोदयशङ्गं च शेष मण्डोवरो भवेत् ॥ १७ ॥ एकादशोदयश्चोचे व्यङ्गादौ च समस्तके। पञ्चाङ्गादौ च सूर्याशाः सप्ताङ्गादौ त्रयोदश ॥ १८ ॥ चतुर्दशोच्छ्ये भागा नवाङ्गेषु च सर्वतः। एष चोदय आख्यातः शृङ्गाणां मालिकाक्रमः ॥ १९ ॥ निषधः सिंहनन्द्याख्यौ व्यङ्गा वै वेदभूमिकाः । निषधो दशभागैः स्यात्तथा सिंहोऽष्टभागिकः ॥ २० ॥ नन्दाख्यो नवभिर्भागः कर्तव्यः सर्वकामदः । निषधश्च चतुर्भूमिः सिंहनन्दो त्रिभूमिकौ ॥ २१॥ सिंह भद्रं चतुर्भागं नन्दाख्ये पञ्चभागिकम् । षड्भागं च भवेद् भद्रं प्रासादे निषधे तथा ॥ २२ ॥ सिंह भद्रं चतुरनं नन्दाख्ये कर्णिकायुतम् । कर्णिका मुखभद्रे च निषधे भद्ररूपकम् ॥ २३ ॥ द्वादशोच्छ्यभद्रं च प्रासादे निषधे तथा। चतु:सार्धत्रयत्रय सार्धभागोवेदिका ॥ २४ ॥ घण्टोदयश्च स्कन्धोधे कुम्भस्तत्तुल्य उच्छ्ये । प्रथमा क्षितिजा नाम द्वितीया सूर्यसेनिका । तृतीया चैव पर्यन्ता चतुर्थी गजकुम्भिका (कन्यका) ॥ २५ ॥ पञ्चमी सिंहरूपा च नरसिंहा च षष्ठिका । सप्तमी सर्वतोभद्रा चाष्टमी गगनोदरी ॥२६॥ नवमी चित्रसंघाटा वेदिकास्त्रिदशालये। कण्ठो ग्रीवा कुड्मलं च पाच्छत्रोपच्छत्रकम् ॥ २७॥ व्यङ्गाः शस्ताश्चतुर्भूमा निषधः सिंहनन्दको । पञ्चाङ्गाः पञ्चभूमास्तु सप्ताङ्गाः सप्तभूमिकाः ॥ २८ ॥ नवागा नवभूमास्तु भमिजाः पुरभूषणाः । ततःपरं न कर्तव्यं शुरच्छन्दे तु भूमिजे ॥ २९॥
इति व्यङ्गस्त्रियः ॥ छन्दे द्वादशधा भक्ते द्विभागः कर्णविस्तरः। सार्धभागः प्रतिरथश्चार्धभागा तु कर्णिका ॥३०॥ पञ्चभागं भवेद् भद्रं निर्गमश्चैकभागिकः । मलयाद्रौ शुद्धच्छन्दे प्ररथः सार्धभागिकः ॥ ३१ ॥ कर्णतुल्यः प्रतिरथो भद्रं द्विगुणविस्तरम् । भने प्रतिरथे वापि निर्गमो भागभागतः ॥ ३२॥