________________
(१७१) भूमिजप्रासादलक्षणात्मकमेकसप्तत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
अथातः सम्प्रवक्ष्यामि प्रासादान् भूमिजाभिधान् । वेदाश्रा वृत्तसंस्थाना अष्टशालास्ततः परम् ॥ १ ॥ निषेधः सिंहनन्दाख्यौ मलयाद्रिश्च मन्दरः | प्रभामणिर्माल्यवश्व मलयो नवमालिकः ॥ २ ॥ पृथ्वीभ्वजस्तथा चेमे चतुरस्राः प्रकीर्तिताः । त्रिपञ्चाश्वनवाङ्गाश्च सङ्ख्यया तु दशैव च ॥ ३ ॥ वृत्तानां च ततो वक्ष्ये नाम सङ्ख्यां च लक्षणम् । कुमुदः कमलः कमलोद्भवः किरणस्तथा ॥ ४ ॥ शतशृङ्गा निरावेदस्तथा सर्वाङ्गसुन्दरः । त्र्यङ्गादितोऽङ्गवृद्धिश्च नवाङ्गान्तं च सङ्ख्यया ॥ ५ ॥ स्वस्तिकोऽथ स्वस्तिकान्तवज्रो हर्म्यातलस्तथा । श्रीतिलकः समाख्यात उद्योद्भव एव च ॥ ६ ॥ पृथिवीभूषणश्चाऽथ गन्धमादन एव च । त्रैलोक्यभूषणश्चेति द्यशालाः प्रकीर्तिताः ॥ ७ ॥ पंचविंशतिराख्याताः प्रासादा भूमिजोद्भवाः । तदनुक्रमरूपं च कथये तव साम्प्रतम् ॥ ८ ॥ निषधादौ दशेमेच चतुरस्राः प्रकीर्तिताः । वृत्ताकाराश्चतुःशालाः सप्तैव कुमुदादयः ॥ ९ ॥ स्वस्तिकाद्यास्तथा चाऽष्टावष्टशालाः प्रकीर्तिताः । त्रिविधा विधितः ख्याता भूमिजाः पुरभूषणाः ॥ १० ॥ निषधं संप्रवक्ष्यामि यथावदनुपूर्वशः । चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते ॥ ११ ॥ द्विभाग: कोण इत्युक्तो भागार्धमुदकान्तरैः । षड्भागं तु भवेद्भद्रं विभजेद् दशभागिकम् ॥ १२ ॥ एकैकभागाः कर्ण्यश्व निर्गमे विस्तरे तथा । द्विभागो भद्रनिष्कासः सर्वभद्रेष्वयं विधिः ॥ १३ ॥ द्विभागं क्षोभयेत्पार्श्व निर्गमो भाग एव च । चतुर्भागं च विस्तारे मुखभद्रं विधीयते ॥ १४ ॥ षड्भागश्च भवेद्गर्भो भित्तिस्तत्र द्विभागिका । भित्तितुल्याप्रकपिली शुकाग्रं च सुरालये ॥ १५ ॥ द्विभागमेकभागं वा त्रिभागमधवोच्यते । इथं शुकानं त्रिविधं ज्येष्ठमध्यकनिष्ठकम् ॥ १६॥