________________
अपराजितपृच्छा घण्टाकलशशोभात्यो दिव्यमण्डपसंयुतः। देवीनामालयः कार्यः सिंहो भगवतीगृहम् ।। ७८ ॥
इति सिंहमेरुः १८॥ वृत्तं वेदानके कणे द्वात्रिंशद्भिर्विभाजिते । षोडश द्विपदाः कर्णाः कर्तव्या भद्रवर्जिताः॥ ७९ ॥ भूमिज शङ्नामेवं च भूमिजं भूमिपञ्चकम् । घण्टाकलशशोभाढ्यं कारयेन्मेरुपद्मकम् ॥ ८० ॥
इति पद्मकमेरु: १९ ॥ तलच्छन्दं मल्लतलमुच्छ्ये सप्तभूमिकम् । नागरशृङ्गाणि कणे प्ररथे द्राविडानि च ॥ ८१॥ भद्रे वराटकूटांश्च लतां वै वामदक्षिण। नन्दिवर्धन आख्यात: सुरूपो लक्षणान्वितः ॥ ८२॥
इति नन्दिवर्धनमेरुः २०॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
विंशतिमेर्वधिकारो नाम सप्तत्युत्तरशततमं सूत्रम् ॥