________________
विंशतिमेधिकारो नाम सप्तत्युत्तरशततम सूत्रम् ॥ शुङ्गं च घण्टाकलश-वजमालाकुलं भवेत् । मुक्ताः संसारतस्ते यैर्मुक्तकोणो विधीयते ॥ ६४ ॥
इति मुक्तकोणमेरुः ॥ ११ ॥ स्यान्मध्ये पूर्ववत्तत्र श्रीवत्सो बाह्यच्छन्दके । कर्णे प्रतिरथे चैव लताण्डं भूमिपञ्चकम् ॥ ६५ ॥ कणे वराटशङ्गाणि प्ररथे द्राविडानि च । छाद्यप्राग्ग्रीवको भने श्रीवत्सो मेरुरुच्यते ॥ ६६ ॥
इति श्रीवत्समेरुः ॥ १२॥ वार्यन्तरं भद्रके व कणेऽण्डं भूमिपञ्चकम् । वराटः कूटभद्रे च कर्णे वै द्राविडो सवेत् ॥ ६७ ॥ घण्टाकलशसम्युक्तो भद्रे प्राग्नीवको भवेत् । हंसमेरु स्तदा नाम ब्रह्मणः स सदा प्रियः ॥ ६८॥
इति हंसमेरुः ॥१३॥ रुचकस्तु भवेत्पूर्व कर्णेऽण्डं भूमिपञ्चकम् । मेषनक्रकूटपालैः कण्टकैरावृतः शुभः ॥ ६९ ॥ भद्रे युक्तश्च प्राग्नीवच्छाघघण्टाद्यलकृतः। रुचकश्च समाख्यातः कर्तव्यो देवतालयः ॥ ७० ॥
इति रुचकमेरुः ॥ १४ ॥ वर्धमानो भवेत्पूर्व कर्णेऽण्ड भूमिपञ्चकम् ।। शङ्गं तस्य च कर्तव्यं द्राविडे कर्मचर्चितम् ॥ ७१ ॥ घण्टाकलशशोभायो भने प्राग्नीवसंयुतः।। वर्धमानस्तदा नाम नित्यं श्रीवर्धते यशः ॥ ७२ ॥
इति वर्धमानमेरुः ॥ १५ ॥ वर्धमानः पूर्वमयं तदूचे वामदक्षिणे । त्रिपुष्कराकृतिः कार्या शृङ्खमलतलोद्भवैः ॥ ७३ ॥ विमानपक्षे शङ्गाणि पृष्ठे प्राग्ग्रीवकस्तथा । अग्रतो मण्डपैर्युक्तः पक्षिराजश्च श्रीपदः ॥ ७४॥
इति गरुडमेरु: १६ ॥ वर्धमानो ह्यसौ पूर्व पृष्ठतो वृत्तमालिखेत् । वामे दक्षे च भद्राद्यं सप्तभूवलयाकृति ॥ ७५ ॥ वेद्यां लेख्यं गजपृष्ठं घण्टाकलशसंयुतम् । दिव्यमण्डपशोभाढ्यः सगजः सर्वकामदः ॥ ७६ ॥
इति गजमेरु: १७॥ विज्ञेयः केशरी पूर्व शिखरं च विमानजम् । प्राग्नीवयुक्त भद्राचं कण्ड भूमिपञ्चकम् ॥ ७७ ॥