________________
अपराजितपृच्छा
४३५
दशधा च तलच्छन्दः सान्धारः पूर्वविस्तरः। द्विभागश्च भवेत्कर्णः कर्णिका चार्धभागिका ॥४८॥ एकभागः प्रतिरथश्चाऽर्धमागस्तु निर्गमे । पुनर्द्धिभागा की स्याद् भागपादेन निर्गता ॥ ४९ ॥ द्विभागो भद्रविस्तारो निर्गमो भाग एव च । कणे प्रतिरथे शृङ्ग पञ्चभूम्यो विमानजाः ॥ ५० ॥ कणे नवाण्डकं शङ्ख पञ्चाण्डकमथाऽनुगे। घण्टाकलशशोभात्यो विमानः सर्वकामदः ॥ ५१ ॥
इति विमानमेरुः ॥ ८॥ कर्णे द्विक्रमतः कार्या नन्दिशाले च नन्दिका । नन्दनाख्यः प्रतिरथे भद्रे शृङ्गवयं भवेत् ॥ ५२ ॥ अष्टप्रत्यङ्गसम्युक्ता विमाने चोरुमारी। नन्दनः कामदश्वेत्थं विमाने मूलमञ्जरी ॥ ५३ ॥
इति नन्दनमेरुः ॥ ९॥ चतुरश्रीकृते क्षेत्रे कर्णान्ते वृत्तमालिखेत् । वेदवशेश्च परिधौ षट्पदं भद्रकाष्टकम् ॥ ५४॥ पदिका कर्णिका प्रोक्ता भद्रं चेदांशविस्तरम् । निर्गमश्चैकभागेन कर्तव्यः सर्वकामदः ॥ ५५ ॥ कर्णाश्च द्विपदा अष्टौ तत्र शृङ्गाणि कारयेत् । सीमां द्विभागिकां त्यक्त्वा पुनर्वृत्तं तु कारयेत् ॥५६॥ अष्टचत्वारिंशद्भके ह्यष्टभद्रं चतुष्पदम् । द्विपदा अष्टकर्णाश्च लताण्डं भूमिपश्चकम् ॥ ५७ ॥ घण्टाकलशशोभात्या भद्रं द्विद्वयुरुमञ्जरि । स्वस्तिकोऽसौ समाख्यातः कर्तव्यः शान्तिमिच्छता ॥ ५८॥
इति स्वस्तिकमेरुः ॥ १०॥ मन्दरस्य च संस्थाने मध्ये तत्रैव तादृशः। वेदांशो भद्रविस्तारस्तदर्ध तु विनिर्गतम् ।। ५९ ॥ वार्यन्तरं भद्रपक्षे त्रिभागः कर्णविस्तरः । मूलनासास्थानतश्चैकभागोभयनिर्गता ॥६०॥ द्विभागो भद्रविस्तारो भागमेकैकनिर्गतम् । कर्णभद्रं वृत्तभद्रे एकांशमुदकान्तरम् ॥ ६१॥ संस्थाने मूलनासाया भागं स्यात्कर्णकक्षकम् । निर्गमः कर्णमानेन पृथुत्वं चतुरंशकम् ॥ ६२॥ अष्टभागा भवेद्रेखा मल्लभूतलपञ्चका। कणे तिलकसंघाटो भद्रे वै कूटघण्टिके ॥ ६३ ॥