________________
४३४
विंशतिमेर्वधिकारा नाम सप्तत्युत्तरशततमं सूत्रम् ॥
दशधा भाजिते पूर्व मन्दरे सर्वकामदे | भागो भागा भ्रमो भित्तिर्देवकोषं द्विरतः ॥ ३३ ॥ द्विभागः कर्णविस्तारो भद्रं षड्भागिकं तथा । कर्णे च नन्दिशालश्च शिखरं च विमानजम् ॥ ३४ ॥ पञ्चभूकर्णशोभाढ्यं सर्वतोभद्र मालिखेत् । रथिका कर्णशृङ्गाढ्या भद्रं तत्राऽपि कारयेत् ॥ ३५ ॥ नागरा हि प्रतिरथा रथानां वामदक्षिणे । मन्दरो मेरुराख्यातः शिवार्कहरिब्रह्मणाम् ॥ ३६ ॥ इतिमन्दर मेरुः २ ॥
मन्दरस्य तलच्छन्दे भद्रं प्राग्ग्रीवभूषितम् । द्विक्रमादूर्ध्वशिखरं पञ्चभूम्यो विमानजाः ॥ ३७ ॥ नन्दिशाल नन्दनं च कर्णशृङ्गेषु दापयेत् । सदाशिवप्रियश्चाऽसौ कैलासः सर्वकामदः ॥ ३८ ॥
इति कैलासमेरुः ३ ॥
मन्दरस्य त्र संस्थाने तद्रूपे तदवस्थिते । भद्रे द्वे उरुमञ्ज विमानाः कुमुदोद्भवाः ॥ ३९ ॥ 'कैलासवत्कर्णशृङ्गं शिखरं मन्दात्मकम् । त्रिविष्टपः समाख्यातः प्रासादः सुखल्लभः ॥ ४० ॥
इति त्रिविष्टपमेरुः ४ ॥
त्रिविष्टपस्य संस्थाने तद्रूपे तदवस्थिते । प्ररथे सर्वतोभद्रं कर्तव्यं तु नवाण्डकम् ॥ ४१ ॥ पृथ्वीजयस्तदा नाम कर्तव्यः सर्वकामदः । एकच्छत्रं धराराज्यं तस्य पृथ्वीं च शासतः ॥ ४२ ॥
इति पृथ्वीजयमेरुः ५ ॥
छन्देऽष्टधा विभक्ते च भित्तिगर्भभ्रमन्तिकाः । द्विभागश्च भवेत् भद्रं भागचतुष्टयम् ॥ ४३ ॥ निर्गतं सार्धभागेन कर्णे स्यादुदकान्तरम् । कर्णे च नन्दिका कार्या शिखरं वै विमानजम् ॥ ४४ ॥ पञ्चाण्डकं भवेच्छ्रङ्गं घण्टाकलशभूषितम् । सिंहकर्णात्मकं भद्रं पृथ्वी भूषणसंज्ञकः ॥ ४५ ॥
इति पृथ्वीभूषण मेरुः ६॥
पृथ्वीभूषणसंस्थाने तद्रूपे तदवस्थिते । उरः शृङ्गं ततो भद्रे कर्तव्यं च विमानजम् ॥ ४६ ॥ रथोद्गमस्तदग्रे च स्वरूपो लक्षणान्वितः । सर्वतोभद्रनामाऽसौ सर्वकल्याणकारकः ॥ ४७ ॥
इति सर्वतोभद्रमेरुः ७ ॥