________________
अपराजितपृच्छा
४२३
नन्दिका चार्धभागा स्याद्विस्तरे निर्गमे तथा । कर्णिका भागपादेन भद्रं साधं च विस्तरे ॥ १६ ॥ निर्गमे चार्धभागेन भागपादेन कर्णिका। एवंविधः प्रकर्तव्यो मेराश्च तलच्छन्दकः ॥ १७ ॥ कणे वार्यन्तरं कुर्याच्छेष सूर्याशभाजितम् । द्विभागश्च भवेत्कर्णस्तत्तुल्यः प्ररथो भवेत् ॥ १८ ॥ वेदांशं च भवेद् भद्रमेकभागेन निर्गतम् । अनुगे शृङ्गतिलकं कुर्यात् कणे द्विशङ्गकम् ॥ १९ ॥ मत्तालम्बयुतं भद्रमुरःशृङ्गद्वयं भवेत् । प्रत्यङ्गैश्च समायुक्तं शिखरं चाष्टविस्तरम् ॥ २० ॥ घण्टाकलशशोभाढ्यं कर्तव्यं सर्वकामदम् । तर्वे मन्दरं कुर्याच्छुद्धच्छंन्दे तु नागरे ॥ २१ ॥ शृङ्गोद्गमः प्रतिरथे नन्दिशालो नन्दनः। स्तम्भोत्सेधो नन्दिकायां भागेकार्धमाख्यातम् ! ॥ २२ ॥ पद्मावती तदूर्वेऽर्धा शृङ्गं पञ्चाण्डभूषितम् ।। स्तम्भोच लघुकर्णी च कर्तव्या तिलकात्मिका ॥ २३ ॥ कण्ठोw रथिकां दद्यादुद्गमैः समलकृतम् ।। प्रथमं चोरःशङ्ग च भागाध पादनिर्गतम् ॥ २४ ॥ द्वितीयमुरःशङ्गं चैकभार्ग चार्धनिर्गतम् । तृतीयं नन्दिकोषे च द्विभागं भागनिर्गतम् ॥ २५ ॥ प्रत्यङ्गं चैव तद्रपं तलच्छन्दप्रमाणतः। चतुर्थमुरःशृङ्गं च त्रिभागं व्यंशनिर्गतम् ॥ २६ ॥ शङ्ख षडंशविस्तारं सार्धसप्तांशमुछूितम् । प्रकर्तव्यं मल्लतलं शृङ्गे शृङ्गे शराण्डकम् ॥ २७ ॥ कण्ठो ग्रीवा कुड्मलं च पद्मच्छत्रोपच्छत्रकम् । तदूचे कलश: स्थाप्यः क्षीरार्णवसमुद्भवः ॥२८॥ आदिद्वितीयोर:शृङ्गे कर्तव्या कुमुदाकृतिः । तृतीये च चतुर्थे च विमानः सर्वकामदः ॥ २९ ॥ प्रत्यङ्गकविमानास्तु शुकानोद्गमसंयुताः। ध्वजान्वितपताकाश्च कर्तव्याः सर्वकामदाः ॥ ३०॥ इमं यः कारयेच्चैव मेरुं च पृथिवीपतिः । एकच्छत्रं महीराज्यं लभते जन्मजन्मनि ॥ ३१॥ सर्वपृथ्वीतीर्थपुण्यं फलं स्यादश्वमेधजम् । दशकोटिगवां दानं राहोश्चन्द्रार्कलिङ्गने ॥ ३२ ॥
इति मेरुप्रासादः १॥