________________
(१७०) मेरुविंशतिर्नाम सप्तत्युत्तरशततम सूत्रम् ॥
विश्वकर्मोवाच
मेरु: प्रासादराजस्तु देवानां सततं प्रियः। ख्यातो मन्दरमेरुश्च तथा कैलास रुकः ॥१॥ त्रिविष्पो भवेन्मेरुमेरुश्च पृथिवीजयः । पृथ्वीभूषणमेरुश्च सर्वतोभद्रमेरुकः ॥ २॥ भवेद् विमानमेरुश्च नन्दनः स्वस्तिकस्तथा। मुक्तकोणश्च श्रीवत्सो हंसो वै मेरुरुच्यते ॥३॥ रुचको वर्धमानश्च वैनतेयो गजस्तथा । सिंहश्च पद्मको मेरुमरुबै नन्दिवर्धनः॥४॥ छन्दाश्च विविधाः ख्यातास्तलच्छन्दास्तथोर्ध्वगाः । मेरुविंशतिराख्याताः प्रयुक्ता वास्तुबेदिभिः ॥५॥ दिक्करादिशतार्धान्ताः प्रासादा भ्रमसंयुताः। तस्याधो भ्रमयुक्तिश्चेन्महादोष इति स्मृतः ॥ ६॥ षटत्रिंशत्करतोऽधस्ताद्यावद्धस्तचतुष्टयम् । विना भ्रमैर्निरन्धाराः कर्तव्याः शान्तिमिच्छता ॥ ७ ॥ चतुरश्रीकृते क्षेत्रे शतमूलविभाजिते। पदैः षोडशभिर्गों भागभित्त्या च वेष्टिता ॥ ८॥ बाह्यभित्तिर्भवेद् भागा भागा चान्धारकारिका । मध्यच्छन्दे वर्धमानः कपोताल्यग्रभूषितः ॥९॥ कपोताली भवेद् द्वारे सीमान्ते चाऽथवोच्यते । मध्यच्छन्दः समाख्यातो बाह्यच्छन्दमतः शृणु ॥ १० ॥ द्विभागः कर्णविस्तार उदकान्तरभूषितः । सार्धभागः प्रतिरथो निर्गमे विस्तरे तथा ॥ ११ ॥ त्रिभाग च भवेद् भद्रं विस्तरे निर्गमे समः । कर्णतुल्यानुगे भित्तिभद्रे चन्द्रावलोकना ॥ १२ ॥ न कार्या तस्य कपिली बाह्यच्छन्देषु वर्जिता । कर्णाने मण्डपं कुर्यात् समं सपादं सार्धकम् ॥ १३ ॥ शिखरोर्ध्वच्छन्द एवं तथा वै कथ्यतेऽधुना। कर्णो द्विभाग इत्युक्त उदकान्तरभूषितः ॥ १४ ॥ सार्धभागः प्रतिरथस्तत्तुल्यो निर्गमस्तथा । पक्षद्वये वारिमार्गः प्ररथेस्य समुद्भवः ॥१५॥