________________
सागरतिलकादिप्रासादलक्षणाधिकारो नामैकोनसप्तत्युत्तरशततम सूत्रम् ।। ४३१ पूर्व भवेद् भूतिलकः शृङ्गं पश्चाण्डकं तथा ।। मकर ध्वजनामा च कार्यों रतिपतेरसौ ॥ २६ ॥
इति मकरध्वजतिलकः ॥ रम्भातिलकशृङ्गेषु प्रकर्तव्या नवाण्डकाः। तिलकान्तो मङ्गलोऽसौ कर्तव्यः सर्वदैवते ॥ २७ ॥
इति मङ्गलतिलकः ॥ शङ्गाणि चेन्द्रतिलके कार्याः पञ्चाण्डकास्तथा । तिलकाख्यस्तदा नाम कार्यः शान्तिमहोत्सवः ॥ २८ ।।
इति तिल काख्यः ।। तथा शङ्गेषु कर्तव्याः सर्वभद्रनवाण्डकाः । पद्मको हि तदा नाम कर्तव्यः शान्तिश्रीप्रदः ॥ २९॥
इति पद्मतिलकः॥ मन्दरे तिलके शङ्गं कर्तव्याश्च नवाण्डकाः। तदा तु सोमतिलकः कर्तव्यः सर्वदैवते ॥ ३०॥
इति सोमतिलकः॥ पृथ्वीजये तु शृङ्गेषु प्रकर्तव्या नवाण्डकाः । नाम्ना त्रैलोक्यतिलक कर्तव्यः शान्तिमिच्छता ॥ ३१ ॥
इति त्रैलोक्यतिलकः ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां सागरतिलकादिप्रासादलक्षणाधिकारो नामैकोनसप्तत्युत्तरशततम सूत्रम् ।।