________________
५७ अ.
द्राविडप्रासादलक्षणाधिकारो नाम चतुःसप्तत्युत्तरशततमं सूत्रम् ॥
अष्टकोणाः पञ्चभूमा पद्मनामा च कामदः । पञ्चभूमा द्व्यष्टदला महापद्म इति स्मृतः ॥ ३१ ॥ चतुर्विंशतिभिर्वृत्तः कैलासः सप्तभूमिकः । द्वात्रिंशद्भिर्दलेर्वृत्तः स भवेन्मेरुनायकः ॥ ३२ ॥
घण्टा कलशशोभाख्यान् शुकनासाग्रसंयुतान् । चित्रकूटान्वितान् कुर्यात् प्रासादान् सर्वकामदान् ॥ ३३ ॥ कूटांश्चाऽथ प्रवक्ष्यामि द्राविडकर्मचर्चितान् । तदनुक्रमयुक्ती च कथये तव साम्प्रतम् ॥ ३४ ॥ पञ्चभागः पृथुः कूट उच्छ्रये सप्तभागिकः । वेदबन्धत्रयं कार्ये त्रिसंघाटमिति स्मृतम् ॥ ३५ ॥ वेदीघण्टाद्वयोरूध्ये द्विसंघाटाभिधः स्मृतः । एकवेदीबन्धकोर्ध्वे वेदीघण्टाद्यलङ्कृतः ॥ ३६ ॥
एकसंघाटसंज्ञोऽयं कर्तव्यः सर्वकामदः । द्विभागं सार्थभागं च भागिकं चार्धभागिकम् ॥ ३७ ॥ त्रिसंघाट इति प्रोक्तश्चार्धभागाश्च वेदिकाः । द्विभागको च्छ्रिताः कृटाः कर्तव्या नासिकोद्भवाः ॥ ३८ ॥ कर्तव्य एकसंघाटो द्विसंघाटस्तथोच्यते । त्रिघाटस्तु कर्तव्यो वेदीघण्टा तदूर्ध्वतः ॥ ३९ ॥ संघाने प्रथमे कुर्यान्मकरान्विकृताननान् । द्वितीये कोटपालांश्च कण्टकांश्च तृतीयके ॥ ४० ॥ वेदीघण्टा तदु तु कार्या पूर्वगुणैर्युता । एवंविधं प्रकर्तव्यं स्कन्धमानाद्विनिर्गतम् ॥ ४१ ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्ता पराजित पृच्छायां द्राविडप्रासादलक्षणाधिकारो नाम चतुःसप्तत्युत्तरशततमं सूत्रम् ॥