________________
४२८
मिश्रकप्रासादलक्षणाधिकारो नामाष्टषष्टयुत्तरशततमं सूत्रम् ॥
चतुरश्रीकृते क्षेत्रे चैकविंशतिभाजिते ।
भागको भवेत् कर्णो निर्गमः पञ्चभागिकः ॥ ३३ ॥ समाकारो भवेत्कर्णः शतमूलविभाजितः । भागो भागा भ्रमो भित्तिः शेषं गर्भगृहं भवेत् । तत्प्रमाणेन कर्तव्या भ्रमन्ती बाह्यभित्तिका ॥ ३४ ॥ नवभागं मध्यकोष्ठं क्षेत्रभागोर्ध्वतो भवेत् । चतुर्भद्रं चतुष्कर्ण मध्ये स्याद् गर्भकोष्ठकम् ॥ ३५ ॥ कर्णे तथा द्विद्विशृङ्गं सर्वभद्रो नवाण्डकः । नवांशं मूलशिखरं वलभी भद्रभद्रतः ॥ ३६ ॥ घण्टा कलशसम्युक्तपताकाध्वजभूषितः । नवात्मकस्तदा नाम कर्तव्यो नव दैवते ॥ ३७ ॥ ईशान्या मीरादेवः स्यादाग्नेय्यां पुरुषोत्तमः । ब्रह्मा च वायुदिग्भागे नैर्ऋत्य च दिवाकरः ॥ ३८ ॥ मध्यगर्भे शिवः स्थाप्यः प्राच्यां चैव पुरन्दरः । धर्मो याम्येऽथवा वरुणः पश्चिमे सोम उत्तरे ॥ ३९ ॥ इमं देवालयं कुर्यात् प्रासादं सर्वशान्तिदम् । सुभिक्षं क्षेममारोग्यं यत्र देशेऽयमुद्भवेत् ॥ ४० ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाश प्रोक्तृश्रीभुवनदेवाचार्य का पराजित पृच्छायां मिश्रकप्रासादलक्षणाधिकारो नामाष्टषष्ठ्युत्तरशततमं सूत्रम् ॥