________________
(१६९) सागरतिल कादिप्रासादलक्षणात्मकमेकोनसप्तत्युत्तरशततमं
सूत्रम् ॥
विश्वकर्मोवाच
अथात: सम्प्रवक्ष्यामि प्रासादानां तु लक्षणम् । विभक्तिच्छन्दतिलकैस्तिलकाः सागरादिकाः ॥१॥ क्षीरार्णवसमुत्पन्नो नाम्ना तिलकसागरः। गौरीरुद्राख्यतिलको श्रीहरिप्रियपूर्वको ॥२॥ लक्ष्मीभूतिलको चैव रम्भेन्द्रतिलको तथा। मन्दरो हिमवांश्चैव कैलासतिलकस्तथा ॥ ३ ॥ पृथिव्यादिस्त्रिभुवन इन्द्रनीलस्तथोत्तमः । सर्वाङ्गतिलकश्चैव तिलकः सुरवल्लभः ।। ४ ॥ सिंहोनकध्वजश्चैव मङ्गलस्तिलकाख्यकः । पद्मकः सोमविजयौ त्रैलोक्यतिलकस्तथा ॥ ५ ॥ पञ्चविंशति इत्युक्तास्तिलकाः सागरादिकाः । छन्दालङ्कारसम्युक्ताः कथ्यन्ते स्वपराजित ॥ ६॥ वैराज्यश्च चतुःस्तम्भैदिशावृत्योरुमावृतम् ? । छाद्यघण्टाकूटयुक्तो नाम्ना तिलकसागरः ॥ ७ ॥
इति सागरतिलकः॥ अौ तिलकसंघाटा: कर्णगर्भोयरोखिका । दिकतिलकार्धनिष्कासो गौरीतिलक ईरितः ॥ ८॥
इति गौरीतिलकः ॥ केशरी पूर्ववज्ञेयः शङ्गे च तिलकं भवेत् ।। ख्यातोऽसौ रुद्रतिलकः कर्तव्यः सर्वदैवते ॥९॥
इति रुद्रतिलकः ॥ कर्णशङ्गो तिलक भद्रोचे सिंहकर्णकः। कर्तः शान्तिश्रीप्रदोऽसौ ख्यातः श्रीतिलकाभिधः ॥ १० ॥
इति श्रीतिलकः॥ भद्रे शृङ्ग प्रदातव्यं नन्दनाकारवत्तथा । तिलकान्तो हरिनामा सिद्धकिन्नरसेवितः ॥११॥
___ इति हरितिलकः ।। भद्रे शङ्गं द्वितीयं च स्थापयेद् रथिकोर्ध्वतः।। लक्ष्मीतिलक आख्यातः क्रीडाहेतुश्च श्रीपतेः ॥ १२॥
इति लक्ष्मीतिलकः ॥